SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ सरः] विद्यास्थानसामरस्यम् 609 तत्वमुक्ताकलापः ज्योतिशास्त्रं पुराणाद्यपि न हि निगमग्राह्य सर्वार्थसिद्धिः माह – ज्योतिरिति । निगम ग्राह्यमिति हेतुगर्भम् । यद्युभयबाधोऽन्यतरबाधो वा ; न तत्र बाधितस्य वेदोपकारकत्वं स्यादिति भावः । कथं वा विरुद्धयोस्साकल्येन प्रामाण्यम् ? इत्यत्राह - आनन्ददायिनी त्यन्ये । भुवो मर्यादेत्यपरे । पूर्वोक्तन्यायेन ज्योतिश्शास्त्रपुराणयोर्विरोधादिति भावः । ननु तत्र कस्यचिद्वाधोऽस्त्वित्यत्राह — अन्यतरबाध इति । न तत्रेति –तथाच विद्यास्थानेषु परिगणनविरोध इति भावः । भावप्रकाशः अक्षश्च ध्रुवोन्नतिः । मध्यमभूपरिधिस्तु एकरूप एव वाच्यः । अन्यथा श्रृङ्गोन्नत्यादेर्व्यत्यासस्स्यात् । तदुक्तं भास्कराचार्यैः ( शिरो. गोला भुवनकोश १६ ) - श्रृङ्गोन्नतिग्रहयुतिग्रहणोदयास्त च्छायादिकं परिधिना घटतेऽमुना हि ! | इति । अत्र यद्यपि —सूर्यसिद्धान्तरीत्या भूपरिधिमानं ५०५९ योज - नानि ; आर्यभटरीत्या ४७१२ ; लल्लाचार्यरीत्या ३३०० ; बराहमिहिररीत्या ३२०० ; ब्रह्मगुप्तरीत्या ४९६७ ( सूक्ष्मम् ) ; भास्कररीत्या ४९६७; परमेश्वररीत्या ३२९९ इति तत्तन्मतभेदेन मानवैषम्यं ज्ञायते ; तथाऽपि अङ्गुलमानभेदेन सर्वमुपपद्यत इति विभावनीयम् । SARVARTHA. 39
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy