SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ सरः ] भूसंस्थानादौ मतभेदाः तन्निरासश्च सर्वार्थसिद्धिः योरयस्कान्तसमाधिं भूगोळे चायस्समाधिमारोपयन्ति ; तेऽपि कल्पनागौरवोपहताः । भूगोळस्यैव हि तादृशशक्तिकल्पनं युक्तम् ! न तु दवीयसोरात्मस्थितिनिर्वाहसापेक्षयोर्ध्रुवयोः । केचिद्भूगोघनमध्यदेश एव सर्वेषामधोऽधोदेशः । तदभिमुखदत्तचरण एव स्थलजलचरस्सर्वो जन्तुवर्गः । भूमिस्तु तदाश्रिता नानाकेसर 603 आनन्ददायिनी दूषयति-- केचिदित्यादिना । भूगोळस्य पिण्डस्य मध्यदेशः कठिनीभूतपिण्डाकारेण परितश्च घनीभूतो भूगोळो मध्यस्थ सौरमण्डलकसौरप्रभान्यायेन वर्तते । तन्मध्यस्थ कठिन प्रदेशन्यस्तचरणास्तदभिमुखाश्च सर्वे जन्तवो वर्तन्ते । अत एव सर्वेषामुपर्यघोभावबुद्धिः नरामराणां भवति । भूलोकादयश्च तदाश्रिताः । तथाच कदम्बग्रन्थिः केसरपरिवृत इव कठिनीभूत भगोळमध्यदेशो जन्तुवर्ग (लोक) परिवृतो भवति । जन्तूनामपि पततां पतनमपि भूगोळमध्यभूतकठिनप्रदेशाभिमुखमेव । तेषां च भूम्यंशभूतानां न तत्र भूमध्यभागे प्रवेशः । काठिन्येन निबिड - भावप्रकाशः स्वर्मेरुः स्थलमध्ये नरको बडबानलश्च जलमध्ये 1 अमरमेरा मन्यन्ते परस्परमधस्स्थितान् नियतम् ॥ (आर्यभ. गो. १२) तरुनगनगरनरासुरसुरैरयं केसरैरिव समन्तात् । भूगोल: कादम्बो मधुकरीभिरिव सर्वतः प्रथितः ॥ (धीवृद्धिदत - भगोला. ६) इति आर्यभटलल्लाद्युक्तिमभिप्रेत्याह - केचिदित्यादि ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy