SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ सरः] भूभ्रमणपक्षेदूषणम् 591 591 . सर्वार्थसिद्धिः च स्वदेशपश्चिमभाग एव तेषां निपातस्स्यात् उड्डीनाश्च पक्षिणो न कुलायमासीदेयुः। प्रत्यकुखं च गच्छतां दुःखेनापि न संनि आनन्ददायिनी क्षेपः परभागे पातप्रसङ्गश्चेत्यर्थः । उड्डीनाश्चेति--तीव्रतरं भ्रमणेन प्रतिक्षणं कुलायादिपुरो धावन्ने(नि)वानुधावता दूरस्थ एव स्यादित्यर्थः । प्रत्यङ्मुखं पततामिति-यत्र पक्षी तत्र कुलायादेस्सन्निध्यसम्भवादिति भावः । प्राङ्मुखमिति--उद्देश्यदेशस्य पूर्वन्यायेन दवीयस्त्वादिति भावप्रकाशः * निपातस्स्यादिति । अयमर्थःइषवोऽभिनभस्समुज्झिताः निपतन्तस्स्युरपांपतेर्दिशि । (धीवृ. तं मिथ्या ४२) इत्यभिहितो लल्लाचार्येण । * उड्डीनाश्चेति यदि च भ्रमति क्षमा तदा स्वकुलायं कथमानुयुः खगाः ? इति तत्पूर्वार्धेन तेनैवोक्तोऽयमर्थः । यद्येवं श्येनाद्याः न खात्पुनः स्वनिलयमुपेयुः । इति 'भ्रमति भ्रमस्थितेव' इत्यादिश्लोकोत्तरार्धेनोक्तो वराहमिहिराचायेणापि (पं. सि. १६-५)। यद्येवमम्बरचरा विहगाः स्वनीड मासादयन्ति न खलु भ्रमणे धरित्र्याः । इति श्रीपतिनापि (सिद्धान्तशेखरे) । किञ्चाम्बुदा अपि न भूरिपयोमुचस्स्युः देशस्य पूर्वगमनेन चिराय हन्त ।
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy