________________
सरः]
नभोनेल्यस्य चाक्षुत्वं नल्यारोपादिवादनिरासश्च
495
तत्वमुक्ताकलापः स्मदादेः
सर्वार्थसिद्धिः अनुमिते नभास नैल्यारोप इति निरस्तम् । नच नीलं नभ इति धीरेव नास्ति! विश्वविसंवादात् । नाप्यसावचाक्षुषः । अस्मदादिचक्षुापारानुविधानात् । नभसि विततानां पार्थिवावयवानां कृष्णगुणमात्रं चक्षुषा गृह्यते इति चेन्न; नीलं नभ इति धर्मिपर्यन्तबुद्धेः । गुणिलिङ्गत्वाचात्र नीलादिशब्दानाम् । एतेन नीलरूपस्मृतिप्रमोषोयमिति पक्षोऽपि निरस्तः। (ननु) नभसि स्वतो नैल्याभावात् पञ्चीकृतेऽप्यस्मिन् नैल्यस्य पार्थिवांशमात्रनिष्ठ. त्वात् तस्मिन्नेवांशे स्यादसौ चाक्षुषधीः? मैवम् ; तस्य नभश्शब्दार्थत्वायोगात् । नीलपटन्यायस्य चात्र ग्राह्यत्वात् । बालातपसंनिधौ
आनन्ददायिनी गुणमात्रविषयत्वे तदधीनव्यवहारस्यापि तन्मात्रविषयत्वान्नीलशब्दस्य नैल्यमात्रविषयस्य नलिं नभ इति क्लीबता न स्यादित्याह--गुणिलिङ्गत्वाच्चेति । एतेनेति-धर्मिपर्यन्तधी(न्तत्व) दर्शनात् गुणिलिङ्गत्वाच्च नीलादिशब्दानामित्यनेनेत्यर्थः । ‘स्मृतिप्रमोषः-तत्तानवगाहिस्मृतिः । ननु तर्हि स्वतोऽपि नीलरूपस्य विरहात् कथं नीलं नभ इति प्रतीतिस्स्यात् इत्यत्राह-नीलपटन्यायस्येति । स्वतोऽभावेऽपि पार्थिवसम्बन्धातथा धीरित्यर्थः । ननु रूपशून्यस्य कथमन्यरूपसम्बन्धेनाऽपि चाक्षुषरूपारोपाधिष्ठानत्वमतिप्रसङ्गादित्यत्राह-बालातपेति। आतिप्रसङ्गस्त्वनुभवबलाद्वार्य इति भावः । नन्वत्रान्य एव नभश्शब्दार्थ इत्यत्राह