SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ सरः] मनो न मध्यमपारमाणं तद्विभुत्वे धीक्रमायोगः चक्षुरादेवृत्त्या दूरस्थग्रहः 471 तत्वमक्ताकलापः वृत्तयाऽक्षयादेवीयःप्रमितिजनकता वृत्तिराप्यायनार्थंभूतैर्जातः प्रसर्पः; सर्वार्थसिद्धिः ङ्गानतिवृत्तिः अतिगौरवं च । यद्येवमिन्द्रियाणि देहान्तस्स्थानि त(था)दा कथं चक्षुश्श्रोत्रयोः दूरस्थग्राहकत्वम् ? इत्यत्राहवृत्त्येति । वृत्तिद्वारा संबन्धादित्यर्थः । ननु वृत्तियदि स्वरूपं देहपरिच्छिन्नत्वात् न दूरस्थ वृत्तिः; धर्मोऽपि न धर्मिणमतिवर्तेत इत्यत्राह-वृत्तिरिति । भूतैस्सहेति वा चारैः पश्यन्तीतिवद्वा योज्यम् । यद्यप्यप्राप्यकारित्वं हैतुकगत्या हठात्कारेण वक्तुं शक्यम् ; तथाऽपि 'दिवीव चक्षुराततम्' इत्याद्यागमिकव्यवहारस्वारस्यबाधाभावात् वृत्तिद्वारा प्राप्त्युक्तिः । आनन्ददायिनी इति व्यतिरेकमुखेनोक्तत्वादित्यर्थः । गौरवं चेति-शरीरावयवावशेषाणामावश्यकत्वात् तैरेव मनःकार्यसिद्धौ तत्कल्पनं गौरवमित्यर्थः । भूतैस्सहेति-इन्द्रियस्य भूतैस्सहितस्य यो विसर्पो-विकारः स वृत्तिरित्यर्थः । अन्ये तु–आप्यायकभूतानां यो विसर्पः स वृत्तिरित्याहुः । अस्मिन् पक्षे चारैः पश्यन्तीति सुसंगतम् । ननु इन्द्रियाणां परमाणुत्वेऽपि भवदुक्ताप्यायनभूतद्वारा प्रागुक्तं सर्वमुपपन्नमिति किमर्थं मध्यमपरीमाणत्वमभ्युपगम्यत इति चेत् ; सत्यम् ;-इन्द्रियाणां कार्यत्वात् कार्यस्य मध्यमपरिमाणत्वनियमादिति भावः । तथापीति–पारीणाम
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy