________________
462 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे जडद्रव्य
सर्वार्थसिद्धिः भेदानां कथम् ? न कथञ्चिदिति चेत् । तर्हि अनेकेन्द्रियवादः । पुञ्जकत्वमस्त्विति चेत् ; किमतः? ग्राहकांशानां मिथो भिन्नत्वात् ।
नच तत्ता तदन्यस्य नच तस्य ततोऽन्यता ।
सत्ताधैर्जेनवद्वाच्या सर्वमानविरोधतः॥ स्पर्शनस्य पुञ्जस्य भागाश्चक्षुरादय इत्यप्यसत्; नियामकाभावात् । अत्र अवयविसामान्यसादृश्यापोहादिभिरैक्यकल्पने अपसिद्धान्तातिप्रसङ्गौ। देहातिरिक्तेन्द्रियकल्पनं चास्मिन् पक्षे अपार्थम् । न ह्या दृष्टहानिरदृष्टकल्पना वा! कुतस्तद्गौरवम् ?
आनन्ददायिनी तत्प्रदेशावयवानां कथमैक्यमित्यर्थः । तहीति-तत्प्रदेशानां भिन्नानामिन्द्रियत्वादिति भावः । किमत इति—ग्राहकांशैक्यानुपपादनादिति भावः । ननु प्रदेशानां मिथो भिन्नत्वेऽपि पुञ्जक्यादैक्यमस्तु इति चेत् तत्राह-नचेति । तदन्यस्य-तद्भिन्नस्य तत्ता-तत्तादात्म्यं, तदात्मनो वा तद्भिन्नत्वं न संभवतीत्यर्थः । ननु भिन्नस्याप्यभिन्नताऽस्तु ‘स्यादस्ति' इति न्यायेनेत्यत्राह-सत्त्वाचैरिति । तथा सति सर्वमानविरोधात् जैनमतवद्दषणवचनार्हमित्यर्थः । पुञ्जक्यमपि नास्तीत्याह-स्पर्शनेति । ननु तव स्पर्शनेन्द्रिय (वि) भा(गभेदेऽपि)गादेरपि स्पर्शनेन्द्रियावयविवत् ज्वालानां भेदेऽपि सामान्यसादृश्यापोहादिनैक्यवदैक्यमस्त्विति चेत् ; अत्राह-अवयवीति । अवयविसामान्यपक्षेऽपसिद्धान्तो बौद्धस्य ; तदभावात्सामान्यादिषु त्रिष्वतिप्रसङ्गः । एतादृशैक् कल्पनं च (कल्पनस्य च न किंचित्प्रयोजनं भेदाविरोधित्वात् ) नेन्द्रियभेदविरोधीत्यपि