________________
382
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[ जडद्रव्य
तत्वमुक्ताकलापः
मेयत्वाद्यैर्विगीतं क्षणिकमिह सर्वार्थसिद्धिः
तादृशफलसिद्धिर्युक्ता ; त्वन्मते तु त (देत) 'त्सन्ततिव्यवस्थापकाभावात् तत्रैव फलं बनातीति दुश्शको नियम इति भावः ॥२९ #क्षणभङ्गसाधनान्तरं दूषयितुमनुवक्ति मेयत्वाद्यैरिति। इह पक्षदृष्टान्तविकल्पार्ह वस्तुजाते । विगीतं क्षणिकं मेयत्वात् आनन्ददायिनी
ननु क्षणिकत्वानुमानं पूर्वं दूषित (मिति) मेव पुनस्तद्दषणे पौनरुक्तयंमित्याशङ्कयावतारयति - क्षणभङ्गेति । इहेत्यस्य जगत्परत्वे ऽनन्वयमाशङ्कय तस्या (इहशब्दा)र्थमाह--पक्षदृष्टान्तेति - विगीतं - क्षणिकत्वेन विप्रतिभावप्रकाशः
तम्। '* सन्ततिव्यवस्थापकाभावादिति । क्षणिकत्वपक्षे कार्यक्षणपूर्वक्षणानां सर्वेषामन्वयव्यतिरेकयोरविशेषेण सिद्धान्तिवदुपादानोपादेययोरभेदानङ्गीकारेण स्वोपादानबलव्यवस्थानिर्णयासंभवेन
स्वोपादानबलोद्भताः कलापोत्पादकाः पृथक् ।
इति शान्तरक्षितोक्तिरनुचिता । एतेन -
४३२
सहकार्रिकृतश्चैवं यदा नातिशयः क्वचित् । सर्वदा निर्विशेषैव तदा सन्ततिरिष्यते ॥ इति भदन्तयोगसेनोक्तदूषणमपरिहार्यम् । सन्ततिदूषणविस्तरस्तु श्लोकवार्तिकादौ बोध्य इति भावः । क्षणिकत्वसाधने सत्त्वहेतोरेकस्य ज्ञान - श्रियाऽभिधानेऽपि तदविशेषेणान्यस्यापि हेतोस्तन्मते क्षणिकत्वसाधकत्वं संभवतीति स्वस्य बौद्धमतप्रावीण्यं दर्शयन्नवतारयति 2 क्षणभङ्गसाधनान्तरमित्यादिना 3 मेयत्वादिति —–— मेयत्वमविसंवादिज्ञानविषयत्वं ।