________________
350
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
तत्वमुक्ताकलापः तेन नैकं क्वचित्स्यात्
सवार्थसिद्धिः विरोधः परिहियते! क्वचिच्छक्तं क्वचिदशक्तं केनचिज्जन्यते व्यज्यते बाध्यते वा नान्येन । कस्यचित्प्रतियोगी व्याप्यः व्यापकः पूर्वः परो वा नान्यस्येत्यादि । एवं विषयभेदादपि विरोधस्ते दुष्परिहरः । ततःकिमित्यत्राह–तेनेति । विरुद्धानां देशकालाद्यसमाहितविरोधत्वेन स्वलक्षणस्यापि विरुद्धशतक्षुण्णतया नानात्वे तत्क्षोदानां च तथातथा क्षोदे किश्चिदप्येकं न
आनन्ददायिनी दर्शयति-क्वचिच्छक्तमिति । दण्डो घटे शक्तः पटोत्पादने शक्तयभाववान् घटः क्वचिदधिकरणे जायते क्वचियज्यते क्वचिद्बाध्यते ; एवं केनचिजन्यते व्यज्यते बाध्यते च नान्येन ; तथा कस्यचित्प्रतियोगी कस्यचियाप्यः कस्यचियापकः इति शक्तत्वाशक्तत्वादीनामविरोध इत्यर्थः । आदिशब्देन कुत्रचित्संयोगतदभावादीनां ग्रहः । परः पूर्व इत्यादौ कस्यचिदित्यस्य तस्मादिति विभक्तिविपरिणामेन कस्माचिदित्यन्वयः । केचित्तु--' अन्यारादितरर्ते' इत्यादिना दिक्छब्दयोगे पञ्चम्याः ‘तस्य परमामेडितम्' इति निर्देशन अनित्यत्वज्ञापनात् कस्यचिदित्यनुषङ्गः। भवत्पक्षे भिन्नविषयकत्वादिभिरपि विरोधपरिहारो न सम्भवति भिन्नविषयकत्वादेरपि विरुद्धत्वादित्याहएवमिति । विषयभेदो भिन्नविषयत्वं । आदिशब्देन करणभेदादिसंग्रहः । तत्क्षोदानां-क्षणिकस्वलक्षणाद्भिन्नानां भागानां । तथातथा--