________________
254
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
[जडद्रव्य
तत्वमुक्ताकलापः भागैः देहादिः पञ्चभूतात्मक इति निगमायुक्तिभिश्व प्रसिद्धम् । न त्वेवं संकरस्स्यात्
सर्वार्थमिद्धिः वपुः' इत्यादि च स्मर्यते; तदिदमाह-देहादिरिति । यथा विजातीयवृक्षपोतव्यतिषक्तोपचये वृक्षकत्वधीः; एवमेकस्मिन्ननेकभूतारब्धे विरुद्धजातिसमावेशगन्धोऽपि न स्यादित्याहन त्विति । एवंशब्द उक्तहेतुपरो वा। अपूर्वद्रव्यानुत्पादादित्यर्थः । तदुत्पादेऽपि न च जातिसंकर इत्याशयः । नरसिंहादिन्यायनोभयविलक्षणावयव्युत्पत्तेस्संभवात् । कल्प्यते च युष्माभिश्चित्रं रूपान्तरम् । एतेन तज्जातीयोपात्तं कथमत
आनन्ददायिनी हाराणामप्यपार्थिवरूपवत्वमेव ; तथाऽपि भूतद्वयमयत्वे शरीरस्य भूतान्तरमयत्वमपि तद्वद्भवतीति भावः । वृक्षैकत्वधीरिति-यथा चूतवटाश्वत्थव्यतिषक्ताङ्कुरजन्ये नानोपादानके एकोऽवयवीति धीरित्यर्थः । व्यतिषक्तवृक्षपोतोपचयस्यासन्निहितत्वात्तत्परामर्शो न युक्त इति पक्षान्तरमाह-एवंशब्द इति । पूर्वश्लोके प्रतिपन्नत्वात् । एवं च पाञ्चभौतिकत्वे शरीरस्य नियतजातिन स्यात् नियामकाभावात् । नाऽपि नाना ; सार्यप्रसङ्गात् ; नापि तद्रहितम् ; द्रव्यत्वावान्तरजातिरहितस्य कार्यस्याद्रव्यत्वापातात् । नापि जात्यन्तरम् ; अधिकद्रव्यापत्तेः इत्याद्यनुपपत्तयः परोत्प्रेक्षिताः अवयव्यनभ्युपगमपक्षे न प्रभवन्तीति भावः । अवयव्यङ्गीकारेऽपि नैते दोषाः स्युरित्याह—तदुत्पादेऽपीति । ननु