SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ 240 सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे [जडद्रव्य सर्वार्थसिद्धिः तादृग्भूतावयव्यर्थे संघाते सा भविष्यति । गाढावयवसंश्लेषरहितेऽवयविन्यपि ॥ धारणाकर्षणे न स्तः तथाचाभ्युपगच्छसि । धारणाकर्षणे चात्र *धृताकृष्टानुबन्धतः ॥ आनन्ददायिनी 'धारणाकर्षणोपपत्तेश्च' इति गौतमेनासूत्रयतेत्यर्थः । अत्र विपर्यये पर्यवसानेनावयव्यङ्गीकारे धारणाकृष्टी उपपद्येते इत्युपपत्तिरेव सूत्रेण प्रतिपादितेत्यर्थः । तादृगिति-धारणाकृष्टियोग्यावयव्युत्पादकसंघातमात्रादेव तदुपपद्यत इत्यर्थः । धारणाकर्षणयोरवयविसाध्यताअप नेत्याहगाढावयवेति । अवयव्युत्पादकासमवायिकारणसंयोगो यत्र दृढो न भवति कोमललतादौ तत्र धारणाकर्षणे प्रति न प्रयोजकमवयवि; नच तत्रावयव्यभावः । तथाचेति-धारणाकर्षणाद्यभावेऽपि तत्रावयव्यभ्युपगच्छसि । कुत्र तर्हि धारणाकर्षणे अभ्युपगम्यते इत्यत्राहधारणेति । अवयविन्यपि सति गाढावयवसंश्लेषे सत्येव धृताकृष्टानुबन्धतः । धृताकृष्टसंबन्धेन धारणकर्षणे भवत इति वक्तव्यम् ; तथा भावप्रकाशः तात्पर्यटीका---'ते एते धारणाकर्षणे गोघटादिकमुपलभ्यमानमवयविनं साधयतः । कुतः ? निरवयवे विज्ञानाकाशादौ अवयवे च परमाणौ चादर्शनात् । इदमेवं प्रयोगमारोहति—योऽयं दृश्यमानो गोघटादिरवयविपरमाणुसमूहभावेन विवादाध्यासितः नासाववयवी धारणाकर्षणानुपपत्तिप्रसङ्गात्' इत्यादि । * धृताकृष्टानुबन्धत इत्यादि-यदाऽवयविन एकदेशं गृह्णाति तदैकदेशग्रहणेन सहावयविनमपि गृह्णाति 'इत्यायुदाहृतन्या वार्तिके अवयवावयविभावसंबन्धसत्त्वादेवावयवग्रहाणनाव
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy