________________
92
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
जडद्रव्य
~~~~~mmmmmmm.
सर्वार्थसिद्धिः नाधः असम्मतेः, गुरूक्तेश्च * विरोचनोपदेशवदसुरमोहनार्थत्वात् । न द्वितीयः उक्तेषु विवादाभावात् । अधिकानां निषेधस्य निष्प्रमाणकत्वात् । अनुपलब्ध्या निषेध इति चेन्न; योग्यानुपलब्धेरभावात् । इतरस्य निषेधकत्वायोगात् । उपलब्ध्या चेञ्चतुर्णामुपादानं आकाशेन किमपराद्धम् । अस्ति ह्यासंसारं तदुपलम्भः । न चात्रास्पर्शत्वादिभिर्वाधः । अरूपत्वादिना वाय्वादेरपि निवप्रसङ्गात् । शेषं च वक्ष्यामः । अथ उपलम्भवलादस्त्वाकाशमपीति चेत् । तथैव भिन्नाभिन्नभवानु
आनन्ददायिनी वत्" इत्यादिनेत्यर्थः-विरोचनोपदेशवदिति-ब्रह्मणा मोहनाथ विरोचनं प्रत्युपदेशवदित्यर्थः । अधिकानामिति—संख्याविशेषात्तन्मूलभूतप्रमाणेनाधिकनिषेधः कर्तव्यः । आगमवाधे(न)तदनुमानायोगादिति भावः । इतरस्य । अनुपलब्धिमात्रस्य । अस्ति हीति—इहाकाशे विहगः पततीत्याबालमुपलम्भादित्यर्थः । अरूपत्वादिनेत्यादिशब्दवयेन गन्धवत्त्वाभावाजलस्य स्नेहवत्त्वाभावात्तेजसश्चेति विवक्षितं । ननु महत्त्वे सत्युद्भतस्पर्शवत्त्वं बाह्ये (बँके) न्द्रियग्राह्यस्पर्शवत्त्वं वा द्रव्यप्रत्य(क्षे)क्षत्वे तन्त्रं ; अनुगतसंभवे तत्परित्यागायोगादिति चेत्तत्राहशेष चेति-आकाशनिरूपणे इत्यर्थः। भिन्नभवो-जन्मान्तरं
भावप्रकाशः 1* विरोचनोपदेशवदिति—छान्दोग्याष्टमप्रपाठकाष्टमखण्डे विरोचनं प्रति प्रजापत्युपदेशोऽवसेयः ॥