SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ बार्हस्पत्यस्तु नास्तिकः ।। (हेमचन्द्रीयाभिधानचिन्तामणौ) ... नास्तिको वेदनिन्दकः ॥ (मनुस्मृतौ) इत्येवमादिभिः ग्रान्थिकव्यवहारैः लोकायतशब्दः नास्तिकजनवाचितया प्रवर्तमानो विज्ञायते ॥ योऽवमन्येत ते मूले हेतुशास्त्राश्रयाद्दिजः । इति मनुवचनालोचनेन च नास्तिकपरिगृहीतं शालमपि हेतुशास्त्रमिति व्यपदेश्यं ज्ञायते । श्रुतिस्मृतिन्यायविरुद्धशास्त्राभिज्ञो हैतुक इति कुल्लूकभट्ट आह नानाशास्त्रेषु मुख्यैश्च शुश्राव स्वनमीरितम् । लोकायतिकमुख्यैश्च समन्तादनुनादितम् ॥ (महाभारत १-७-४६) ऐक्यनामात्मसंयोगसमवायविशारदैः । लोकायतिकमुख्यैश्च शुश्रुवुस्स्वनमीरितम् ॥ (हरिवंश २४९-३०) इत्यादिवचनालोचने तार्किकमात्रपरतापि विज्ञायते ।। कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे! । अनर्थकुशला ह्येते बालाः पण्डितमानिनः ॥ धर्मशास्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः । बुद्धिमान्वीक्षिकी प्राप्य निरर्थं प्रवदन्ति ते ।। (श्रीमद्वाल्मीकिरामायणे २ का. १०० सर्गे) इति श्रीमद्वाल्मीकिवचनालोचनेन शुष्कतार्किकपरताप्यवसीयते ।। नच ब्राह्मणा वेदविदश्शुष्कतार्किका इति कथमिदं घटत इति शङ्कनीयम् ; यतः बैजिसौभवहर्यक्षैः शुष्कतर्कानुसारिभिः । आर्षे विप्लाविते ग्रन्थे संग्रहप्रतिकञ्चुके ||
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy