SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ सरः द्रव्यातिरिक्तधर्माक्षेपपरिहारः 85 सर्वार्थसिद्धिः भ्युपगमे तु '* लोकायतावतारात् । इष्यते च अविद्यावासनादि भ्रान्तेरपि निदानं भवद्भिः । अत एव न तृतीयः । नापि चतुर्थः स्वपरलोकव्यवहारविरोधादेव । कथं किलासौ विशिष्टप्रतीतिः कथं च निर्विषया ? न पञ्चमः, अद्यापि आनन्ददायिनी दोषः । तदधीनकल्पितविषया विशिष्टधीरित्यर्थः । लोकायतेतिचार्वाकमते कार्यकारणभावाभावादिति भावः । नचेष्टापत्तिः. अपसिद्धान्तप्रसङ्गापत्तेरित्याह–इष्यते चेति । अविद्या-दोषः । वासना पूर्वपूर्वसंस्कारः । आदिशब्देनालम्बनसमनन्तरसहकार्यधिपतिप्रत्ययादयः । अत एवेति-तत्कारणतयैव निरूपणसंभवादित्यर्थः । स्वपरेति-- लोको द्विविधः----स्वः परश्चेति। तद्व्यवहारविरोधादित्यर्थः कथं चेति विशिष्टविषया प्रतीतिविशिष्टप्रतीतिः । तथा च विशिष्टप्रतीतिनिविषयेति स्ववचनव्याघात इत्यर्थः । अद्यापीति-व्याघातात्माश्रय भावप्रकाशः ब्रूयात्तत्कस्यचिन्नाम घटः प्रत्यक्ष इत्यपि ।। इति । 1* लोकायतावतारादिति । तन्मते कार्यकारणभावानङ्गीकारे युक्तयः तद्दषणप्रकाराश्च (३१) प्रकाशयिष्यन्ते । 'शब्दज्ञानानुपाती वस्तुशून्यो विकल्प' इति पातञ्जलैनिर्विषयख्यात्यङ्गीकारेण तदभिप्रायेण निर्विषयेति पृथक्कोटिः। ननु स्वलक्षणस्यैव परमार्थसत्त्वेन सप्रकारकज्ञानसामान्यं भ्रमः, वेदवादिभिरपि निर्गुणं ब्रह्मैव परमार्थसत् सगुणं त्वपरमार्थमेवेति निर्विकल्पकं ब्रह्मज्ञानमेव तत्वतः प्रमा सप्र
SR No.022392
Book TitleTattva Muktakalap
Original Sutra AuthorN/A
AuthorD Srinivasachar, S Narasimhachar
PublisherMysore Government Branch
Publication Year1933
Total Pages746
LanguageSanskrit
ClassificationBook_Devnagari
File Size41 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy