________________
54
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे सव्याख्या
जडद्रव्य
सर्वार्थसिद्धिः अनेकान्तवादानभ्युपगमाच्च । एवं चक्षुरादिभेदादूपादिभेदभ्रमस्स्यात् इति । तदपि न । तत्तत्कर्मशक्तिवैचित्र्यात्तत्तदनुकूलत्वादिव्यवस्थोपपत्तेः। वस्तुषु च अनुकूलत्वप्रतिकूलत्वे सुखदुःखजनकत्वे एव । तथापि सुखदुःखे बुद्धिभेदावेव भवद्भिरपि स्वी(क्रियेते)कृतौ । ततश्चात्र विषयभेदाद्धीभेदः तस्मादेव च स इति प्रसङ्गस्स्यादिति चेन्न; विषयभेदस्य स्वकार
आनन्ददायिनी
तथाचोक्तं
परिव्राट्कामुकशुनामेकस्यामेव योषिति । .
कुणपः कामिनी भक्ष्यमिति तिस्रो विकल्पनाः ॥ इति । अनेकान्तवादः—सप्तभङ्गीवादः । अनुकूलप्रतिकूलत्वयोः प्रतियोगिभेदेन विरोधाभावान्नेन्द्रियकल्पितत्वं किं तु पारमार्थिकत्वमेवेति परिहरति-तदपीति । तार्ह सर्वेषामुभयथा प्रतीतिस्स्यादित्यत्राह—तत्तदिति । पारमार्थिकत्वं विरोधाभावं चोपपादयतिवस्तुष्विति । बुद्धिभेदावेवेति । अनुकूलविषयिणी बुद्धिः सुखं प्रतिकूलविषयिणी दुःखं इत्यङ्गीकृतमित्यर्थः । परेषां तु ते तज्जनके इति विशेषः । तथाच
अर्थेनैव विशेषो हि निराकारतया धियाम् । इति न्यायेन तद्भेदाद्धीभेदः धीभेदात्तद्भेद इत्यन्योन्याश्रय इत्यर्थः । उत्पत्तिज्ञप्तयोरन्योन्याश्रयो दोषो वाच्यः । न तावदुत्पत्तावन्योन्याश्रयः ; अर्थभेदः स्वसामग्रया न तु धीभेदेन ; धीभेदस्त्वर्थभेदेनेति। नापि ज्ञप्तौ; धभिदसामग्रयेव विषयभेदज्ञाने कारणं भेदज्ञाने च मनस्सन्निकर्षादिकमिति ज्ञप्तावपि नान्योन्याश्रय इति परिहरति-न विषयभेदस्येति ।