________________
सव्याख्यसर्वार्थसिद्धिसहिततत्वमुक्ताकलापे
सर्वार्थसिद्धिः
इति वदद्भिः । अतः सहोपलम्भनियमाद्धर्मधर्मिभेद एव सिध्यति । किंच रूपस्पर्शयोः सहधीनियमस्त्वयाऽपि दुस्साधः । अतस्तयोरयुगपदुपलम्भादभेदासिद्धावेकस्य * प्रत्यभिज्ञाविषयस्य ततोऽन्यत्वं स्पष्टं । यत्तदन्यत्र युष्माभिरुक्तम् —
1
40
[जडद्रव्य
आनन्ददायिनी
भेदघाटतत्वात्तन्नियमहेतुर्विरुद्ध इत्याह- - अत इति । किंच सहोपलम्भनियमेन धर्मधर्मिभेद निरसनेऽपि रूपस्पर्शयोस्तन्नियामकाभावादसिद्धेः दृष्टमेव स्पृशामीति प्रत्यभिज्ञानुपपादनादेतावान् प्रयासो व्यर्थ - इत्याह-किंचेति । भवद्भिरेवानुगतो धर्मी बुद्धेर्बाध्यबाधकभावनिरूपणस्थले बुद्धितत्वमालायामुक्तः स इदानीं त्यज्यत इति पूर्वापरविरोधश्वेत्याह यत्तदन्यत्रेति अनुपप्लवेति — इदमित्थं सिद्धिटीकायां व्याख्यातंशुक्तिकारजतयोर्बाध्यबाधकभावः कथं नियम्यते ? नहि विरोधेन वैपरीत्यस्यापि प्रसङ्गात् । नच निषेधात्मकतया ; विधेरपि कचिद्वाधकत्वात् निषेधस्यापि बाध्यत्वात् । न च प्रामाणिकत्वाप्रामाणिकत्वाभ्यां ; प्रामाणिकस्यापि दुर्बलस्य शत्रोर्बाध्यत्वात् । किंच बाधार्थं बाध्यविषय
;
भावप्रकाशः
गुणेभ्योऽर्थान्तरभूतद्रव्यानुपलम्भेन गुणगुणिवादो निरस्तः । प्रयोगःयदुपलब्धिलक्षणप्राप्तं सत् यत्र नोपलभ्यते तत्तत्र नास्ति ; यथा कचि - त्प्रदेशाविशेषे घटादिरुपलभ्यमानः । नोपलभ्यते च गुणेभ्योऽर्थान्तरभूतस्तत्रैव देशे गुणी' इति स्वभावानुपलब्धिः प्रतिषेधहेतुरुक्तः स एव नोपलभ्यते च ज्ञानादर्थान्तरभूतस्तत्रैव देशेऽर्थ इति विधया वैभाषिकाभ्युपगतस्य ज्ञानादर्थान्तरभूतस्यार्थस्य प्रतिषेधहेतुः प्रसजेत् इति ॥ * प्रत्य भिज्ञाविषयस्येत्यादि - एतेनोदाहृतस्वभावानुपलब्धिहेतोरसिद्धिर्दर्शिता ।