SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ सूत्र १-२- ९ ६० [ प्रमाण चास्ति केवलमविनाभावमात्रेण गमकत्वोपपत्तिः । ननु पक्षधर्मताभावे श्वेतः प्रासादः काकस्य कायादित्यादयोऽपि हेतवः प्रसज्येरन् । नैवम् । अविनाभावबलेनैवापक्षधर्माणामपि गमकत्वाभ्युपगमात् । न चेह सोऽस्ति ततोऽविनाभाव एव हेतोः प्रधान लक्षणमभ्युपगन्तव्यम् । सति तस्मिन्नसत्यपि त्रैलक्षण्ये हेतोर्गमकत्वदर्शनात् न तु त्रैरूप्यं हेतुलक्षणमव्यापकत्वात् । तथा च सर्व क्षणिक सत्वादित्यत्र मूभिषिक्त साधने सौगतैः सपक्षे सतोऽपि हेतोः सत्त्वस्य गमकत्वमिष्यत एव । तदुक्तम् “ अन्यथाऽनुपपन्नत्वं यत्र तत्र त्रयेण किम् । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम्" इति । एतेन पश्चलक्षणकत्वमपि नैयायिकोक्तं प्रत्युक्तम् तस्याप्यविनाभावप्रपञ्चत्वात् । तथाहि त्रैरूप्यं पूर्वोक्तमबाधितविषयत्वमसप्रतिपक्षत्वं चेति पञ्च रूपाणि । तत्र प्रत्यक्षागमबाधितधर्मनिर्देशानन्तरप्रयुक्तत्वं बाधितविषयत्वं यथाऽनुष्णस्तेजोवयवी कृतकत्वात् घटवत् । ब्राह्मणेन सुरा पेया द्रव्यत्वात् क्षीरवत् । इति तनिषेधात् बाधितविषयत्वं प्रतिपक्षहेतुबाधितत्वम् । सत्प्रतिपक्षत्वं यथाऽनित्यः शब्दो नित्यधर्मानुपलब्धेः अत्र प्रतिपक्षहेतुर्नित्यः शब्दोऽनित्यधर्मानुपलब्धेरिति । तनिषेधादसत्पतिपक्षत्वम् । तत्र बाधितविषयस्य तत्प्रतिपक्षस्य चाविनाभावाभावादविनाभावेनैव रूपद्वयमाप सङ्ग्रहीतम् । यदाह " बाधाविनाभावयोर्विरोधाद्" इति अपि च स्वलक्षणलाक्षतपक्षविषयत्वाभावात्तदोषेणैव दोषद्वयमिदं चरितार्थ किं पुनर्वचनेन । तत्स्थितमेतत् साध्याविनाभावैकलक्षणादिति॥९॥ तत्राविनाभावं लक्षयति१ ‘गमकत्वोपपत्तेः ' इति क्वचित्पाठः । २ — सत्प्रतिपक्षस्य ' इति क्वचित्पाठः ।
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy