SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ मीमांसा] सूत्र १-१-८ नभ्यासदशापन्ने प्रत्यक्षे । नहि तदर्थेन गृहीताव्यभिचारामिति तदेकदेशविषयात् संवादकात्, ज्ञानान्तराद्वा, अर्थक्रियानिर्भासाद्वा, नान्तरीयार्थदर्शनाद्वा तस्य प्रामाण्यं निश्चीयते । तेषां च स्वतःप्रामाण्यनिश्चयान्नानवस्थादिदौस्थ्यावकाशः । शाब्दे तु प्रमाणे दृष्टार्थेऽर्थाव्यभिचारस्य दुर्ज्ञानत्वात् संवादाद्यधीनः परतः प्रामाण्यनिश्चयः । अदृष्टार्थे तु दृष्टार्थग्रहोपरागनष्टमुष्ट्यादिप्रतिपादकानां संवादेन/ प्रामाण्यं निश्चित्य संवादमन्तरेणाप्याप्तोक्तत्वेनैव प्रामाण्यनिश्चय इति सर्वमुपपन्नम् । अर्थोपलब्धिहेतुः प्रमाणमिति नैयायिकाः । तत्रार्थोपलब्धौ हेतुत्वं यादि निमित्तत्वमानं तदा तत्सर्वकारकसाधारणमिति कर्तृकर्मादेरपि प्रमाणत्वप्रसङ्गः । अथ कर्तृकर्मादिविलक्षणं करणं हेतुशब्देन विवक्षितं तर्हि तज्ज्ञानमेव युक्तं नेन्द्रियसन्निकर्षादि । यस्मिन् हि सत्यर्थ उपलब्धो भवति स तत्करणम् । न चेन्द्रियसन्निकर्षसामग्र्यादौ सत्यपि ज्ञानाभावे स भवति । साधकतमं हि करणमव्यवहितफलं च तदिष्यते । व्यवहितफलस्यापि करणत्वे दधिभोजनादेरापि तथाप्रसङ्गः। तन्न ज्ञानादन्यत्र प्रमाणत्वम् । अन्यत्रोपंचारात् । सम्यगनुभवसाधनं प्रमाणमित्यत्रापि साधनग्रहणात् कर्तृकर्मनिरासेन करणस्य प्रमाणत्वं सिध्यति तथाप्यव्यवहितफलत्वेन साधकतमत्वं ज्ञानस्यैवेति तदेव प्रमाणत्वेनेष्टव्यम् । प्रमाणमविसंवादिज्ञानमिति सौगताः। तत्रापि यद्यविकल्पकं ज्ञानं तदा न तद् व्यवहारजननसमर्थम् ।। सांव्यवहारिकस्य चैतसमाणस्य लक्षणमिति च भवन्तः । तत्कथं तस्य प्रामाण्यम् । उत्तर१ 'उपलब्धिहेतुश्च प्रमाणम्' । इति गौतमसूत्रवात्स्यायनभाष्ये । पृ. ९४ पं. ४ । २ भासर्वज्ञप्रणीत न्यायसार प्रत्यक्ष परिच्छेदे सूत्र १ पृ. १ पं. ८ । ३ " अविसंवादकं ज्ञानं सम्यग्ज्ञानम् ” न्यायबिन्दु पृ, ५ पं. ९ ।
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy