SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ (१०) ... २४ नाभेयनेमिद्विसंधानकाव्यम् । जैनप्रन्थावल्यनुसारम् । तथा मुनिजिनविजयमहाशयाः। पं. हिरालालमतेनायं ग्रन्थः द्रोणाचार्यशिष्यसुराचार्यकृतः ( जै. इ. ११३६) २५ द्विजवदनचपेटा-अयमेव ग्रन्थो वेदाङ्कश इत्यप्यभिधीयत इति पं. हरगोविन्ददासमतम् । श्रीहरिभद्रसूरिकृतोऽपि द्विजवदनचपेटेति ग्रन्थो वर्तते। - २६ चन्द्रलेखविजयप्रकरणम् । जैनग्रन्थावली पृ.३२९एतदनुसारम् । - अयि श्रेष्ठा विद्वांसः। आर्हतमतप्रभाकरपरिचये प्रतिश्रुतानुसारं प्रथमोऽयं किरणः प्रमाणमीमांसाख्यः प्रकाश्य श्रीमत्पुरतो निधीयते । एतप्रकाशने पुस्तकद्वयं लब्धम् ।। १ प्राच्यविद्यासंशोधनमन्दिरम् (भाण्डारकर ओरिएंटल रीसर्च इं.) प्राचीनं लिखितं च । अतीवाशुद्धम्पूर्णं च । . २ श्रेष्ठि माणिकलालमनसुखभाईमुद्रापितम् अधुना दुर्लभमपि मुनिजिनविजयजीकृपाप्रसादाल्लब्धम् । पुस्तकद्वयेनाप्युपकृता वयं तत्तन्महाशयानुग्रहभरान्वहामः । एवं पुस्तकद्वयानुसारं विलिख्य शुद्धं पुस्तकमर्थभेदविधायिपाठान्तराणि संगृहीतानि टिप्पनीरूपेण । तथैव टिप्पन्यां १ दुर्गमशब्दार्थः २ पौराणिकदृष्टान्ताः ३ लौकिकन्यायाश्च तथा विशदीकृता यथा ग्रन्थार्थजिज्ञासूनांसौकर्यं स्यात् । किं च प्रमाणार्थ ग्रन्थकृदाहतानि वचांसि तत्तद्ग्रन्थस्थलनिर्देशपूर्वकमधो निर्दिष्टानि स्थूलाक्षरैश्च मुद्रितानि येन प्रकरणादिज्ञानं सुलभं भवेत् जिज्ञासूनाम् । प्रयतमानैरप्यस्माभिः कानिचिद्वचनस्थलानि नोपालभ्यन्त तानि तथैव स्थूलाक्षरैर्निर्दिष्टानि । यैर्महाशयैरुपलभ्येत पूर्वोक्तवचनस्थलादिकं तैरनुग्रहबुध्द्या प्रेष्यते चेत् लिखित्वास्मत्सविधे तर्हि पुनर्मुद्रणावसरे तदुपयोगेनात्मनः कृतकृत्यता संपाद्येत । कानिचिद्वाक्यानि नोपलभ्यन्ते यथायथं किं तु तदर्थसमानि ग्रन्थेषु केषुचित लभ्यन्ते तद्ग्रन्थनामानि स्थलनिर्देशपूर्वकं टिप्पन्यां दर्शितानि । दृढं विश्वसिमो यद्गन्थकृदादृतानुपूर्वीघटितानि भवेयुरेव कुत्रचित् इमानि वाक्यानि तान्यपि यदि कैश्चित्कृपया प्रेष्यन्ते तर्हि पुनर्मुद्रणावसरे मुद्रापयिष्येरन् । एवं त्रिविधमपि स्थूलाक्षरमुद्रितं, उपलब्धानुपलब्धोपलब्धसमवाक्यजातं परिशिष्टे दर्शनसौकर्याय मुद्रापितम् । प्रास्ताविके
SR No.022391
Book TitlePraman Mimansa
Original Sutra AuthorHemchandracharya
AuthorMotilal Laghaji
PublisherMotilal Laghaji
Publication Year
Total Pages136
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy