SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ ७६ प्रमाणपरिभाषासह-क्रमभावनियमः सः॥९॥ . सः, अन्यथानुपपत्तिलक्षणो व्याप्त्यपरपर्यायो नियमो द्विप्रकारः सहभावनियमः क्रमभावनियमश्चेति ॥ ९ ॥ __ तत्र सहभावनियममाभिधत्तेआद्यः सहचारिणोर्व्याप्यव्यापकयोश्च ॥१०॥ आद्यः सहभावनियमः सहचारिणोरेकसामग्यधीनयोः फलादिगतयो रूप-रसयोर्व्याप्यव्यापकयोः शिंशपात्व-वृक्षत्वयोश्चेति ॥ १० ॥ अथ क्रमभावनियमं द्योतयतिपूर्वोत्तरभाविनोः कार्यकारण योश्च चरमः ॥११॥ चरमोऽन्तिमः क्रमभावनियमः पूर्वोत्तरभाविनोः कृत्तिकोदय-शकटोदययोः कार्यकारणयोधूम-धूमध्वजयोश्चेति ॥११॥ उक्ता व्याप्तिः । साधनं कः पदार्थः ? । अत्राह-- तहत्त्वेन निश्चितं साधनम् ॥ १२॥ साध्यते गम्यते परोक्षार्थोऽनेनेति साधनं लिङ्गमित्यर्थः, तदेव लक्ष्यं परिशेष लक्षणम् । तत्पदेन व्याप्तिपरामर्शः, व्याप्तिमत्त्वेन अविनाभावित्वेन निश्चितं सम्यगवधारितं साधनमुच्यते । न हि योग्यतया साधनं परोक्षार्थप्रतिपत्तेरङ्गं भवति यथा बीजमङ्कुरस्य, अदृष्टादपि धूमाद् धूमध्वजप्रत्ययोदयापत्तेः, नापि स्वरूपमात्रनिश्चयगोचरं यथा प्रदीपः कलशादेः, अनवधारितप्रतिबन्धस्याऽपि धूमदर्शनात् तत्पसक्तेः, तस्मात्परोक्षार्थाविनाभावित्वरूपेणैव सम्यगनिर्णयपथाध्वनीनं साधनं
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy