________________
२६
प्रमाणपरिभाषामेव । एतेन -- "न तावदिन्द्रियेणैषा नास्तीत्युत्पाद्यते मतिः। - भावांशेनैव संबन्धो योग्यत्वादिन्द्रियस्य हि"॥१॥ ... इति श्लोकवार्तिकं निरस्तम् । यत्तु-"मेयो यद्वदभावो हि मानमप्येवमिष्यताम् । - भावात्मके यथा मेये नाभावस्य प्रमाणता" ॥१॥ - इत्युक्तं भट्टेन तदप्यसारम् , भावरूपेण प्रत्यक्षेण नाऽभावो घेद्यते इति प्रतिज्ञायाचित्रभानुरनुष्ण इतिवद् अन्यासंसृष्टभूतलग्राहिणा प्रत्यक्षेण बाधितत्वात् , गगनतले पत्रादीनामध:पाताभावेन वायुपत्ययसमुत्पादात्, भावादनलादेः शीताभावप्रतीतेः, सर्वानुभवसिद्धत्वात् । न चायं नियमो यो यथाविधो विषयः स तथाविधेनैव प्रमाणेन परिच्छिन्नो भवति, यथा रूपादिभावो भावरूपेण प्रत्यक्षेणेति, अभावस्य मुद्रादिहेतुत्वाभावप्रसङ्गात् ; शक्यं हि वक्तुं यो यथाविधः स तथाविधेनैव क्रियते, यथा घटादिभावो मृत्पिण्डादिना, अभावश्च घटप्रध्वंसस्तस्मादभावेनैव असौ कर्त्तव्यो भवतीति। प्रत्यक्षबाधस्तु अन्यत्रापि तुल्य एवेति नास्ति कश्चिद्भावांशादभिन्नमभावांशं परिच्छिन्दत् प्रत्यक्षादिव्यतिरिक्तमभावविषयमभावप्रमाणमिति ।
यदाऽऽचक्ष्महि"देदीप्यते सदसदात्मकवस्तुबोधे
ऽध्यक्षादिकं किमवशिष्यत आद्रियध्वे । यस्मिन्नभावमितितामयि ! चिन्तयध्वं
नास्ति स्वतन्त्रपदवीं पुनरेष विभ्रत्" ॥१॥३॥ अथ प्रत्यक्ष लक्षयति
साक्षात्करणं प्रत्यक्षम् ॥४॥ अत्र प्रत्यक्ष लक्ष्यम् , साक्षात्करणत्वं तस्य लक्षणम् ।