SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ न्यायालङ्कारालङ्कृता । साध्यसाधनभावेन प्रतीयेते ते परस्परं भिद्यते, यथा कुठारच्छिदे प्रतीयेते च साध्यसाधनभावेन प्रमाणाऽज्ञाननिवृत्याख्यफले । प्रमाणं हि करणाख्यं साधनं स्वपरव्यवसितौ साधकतमत्वात् , स्वपरव्यवसितिक्रियारूपाज्ञाननिवृत्त्यभिधं फलं तु साध्यं प्रमाणनिर्वय॑त्वादिति नैकान्ततः प्रमाणफलयोरभेदसिद्धिरिति सिद्धं भिन्नाभिन्नं प्रमाणात् फलम् । किञ्च प्रमातुरपि स्वपरव्यवसितिक्रियायाः कथश्चिद् भेदः, कर्तुः क्रियायाश्च साधकसाध्यरूपेणोपलम्भात् ; कर्ता हि साधकः स्वतन्त्रत्वात् , क्रिया च साध्या कर्तृनिष्पाद्यत्वात् । न च क्रिया क्रियावतः सकाशादभिन्नैव भिन्नैव वा प्रतिनियतक्रियाक्रियावद्भावभङ्गप्रसङ्गसमवतारादिति ॥ अत्राह कश्चित्- नन्वेष सकलः प्रमाणफलव्यवहारः सांकृत एव कल्पनाशिल्पिसमारचित एवेत्यर्थः, इति विफल एवायं प्रमाणफलावलम्बनः स्याद्वादिनां भेदाभेदप्रतिष्ठोपक्रम इति । सोयमुन्मत्तालापः, तद्यथा सांकृतप्रमाणफलव्यवहारवादिनाऽपि - सांकृतत्वं प्रमाण-फलयोः परमार्थवृत्त्या तावदेषितव्यम् , तच्चासौ प्रमाणतः स्वीकुर्याद्, अप्रमाणतो वा । न तावदप्रमाणात् , तस्याकिश्चित्करत्वात् । प्रमाणाचेदेवं तर्हि सांकृतत्वग्राहकं प्रमाणं सांवृतं वा, असांकृतं वेति वक्तव्यम् । आये कथं तस्मादपारमार्थिकात् पारमार्थिकस्य सकलप्रमाणफलव्यवहारसांतत्वस्य सिद्धिस्तथा च पारमार्थिक एवं समस्त प्रमाणफलव्यवहारः प्राप्तः। द्वितीये भग्ना खलु निखिलप्रमाणफलव्यवहारसांतत्वप्रतिज्ञा अनेनैव व्यभिचारातः तस्मात्पारमार्थिक एव प्रमाणफलव्यवहारः सकलपुरुषार्थसिद्धिहेतुः स्वीकर्त्तव्य इति ॥१२॥ इत्याचार्यश्रीविजयधर्मसूरीश्वरविहितायाः प्रमाणपरिभाषाया वृत्तिभूते मुनिश्रीन्यायविजयप्रणीते न्यायालङ्कारे प्रमाणसामान्य स्वरूपनिरूपणप्रवणः प्रथमः परिच्छेदः ॥१॥
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy