SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ न्यायालङ्कारालङ्कृता। वस्थानम् ? कथं च देहायभावेऽपि नावस्थास्नु ज्ञानादि ? तद्रूपत्वेन जीवस्य आवरणसत्वे -मन्दमन्दतरतद्रूपोदयभवनेऽपि सर्वथाऽऽवरणोपक्षये सर्वथाः सर्वतः मुस्पष्टतद्रू. पोदयसिद्धेयाय्यत्वात् । ऐन्द्रियकज्ञानाधभावेऽपि - आत्ममात्रापेक्षाविर्भावज्ञानादेमुक्तावश्यमभ्युपगमनीयत्वात् ।।... एतेन-- - "यावदात्मगुणाः सर्वे नोच्छिन्ना वासनादयः । । तावदात्यन्तिकी दुःखव्यावृत्तिनावकल्पते" ॥१॥ इति निरस्तम्, धर्माधर्मप्रभवसुखामुखयोर्मुक्तावस्थायामभावेऽपि स्वभावानन्दप्रादुर्भावस्य प्रसिद्वेः । न च सुखेच्छामृते भवति प्रेक्षाणां प्रवृत्तिः, चिकित्सादावपि दुःखध्वंसनियतमुखार्थितयैव प्रवृत्तेः । अपि च दुःखे द्वेषमात्रादेव तन्नाशानुकूलो यत्नो यदि, तदा मूर्छादावपि प्रवृत्तिः स्यात्, न च जायत एवाऽनल्पक्लशक्लिष्टकलेवराणां मरणादौ प्रवृत्तिरिति युक्तम्, तस्या अविवेकप्रवृत्तित्वात्, पुरुषार्थत्वे विवेकानुपयोग एवेति चेत् सत्यं नैयायिकपशूनामेव तदनुपयोगः, नतु प्रेक्षावताम्, यथावत्प्रयोजनं प्रमायैन तत्प्रवृत्तः, .... अतः साधूक्तम् "दुःखाभावोऽपि नावेद्यः पुरुषार्थतयेष्यते । - नहि मूर्छाद्यवस्थायां प्रवृत्तो दृश्यते सुधीः ॥१॥ इति । तत्पद्यत . ..
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy