SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ न्यायालङ्कारालङ्कृता । परमानन्दो मुक्तिः ॥४॥ परमो निरतिशय आनन्दः सुखं कर्मभिर्मोचनाद् मुक्तिः, मोक्षः, अपवर्ग इति प्रसिद्धिः । असौ च केवलज्ञानिनोऽघातिकर्मक्षयापेक्षोत्पादा स्वयं वक्ष्यते सूत्रकृताऽधस्तात् । ननु जीवन्मुक्तिरत्र लक्ष्यत्वेनोशाना परमुक्तिी ? आये, उत्तरसूत्राऽसङ्गतिः, अन्त्येऽतिप्रसङ्गः, शरीरभृतामपि केवल. ज्ञानिनां परमानन्दसद्भावात् इति चेत्, न, द्वितीयपक्षसमाश्रयणात्, नचाऽतिप्रसङ्गः, अनन्तसुखस्य देहधारिणि विरहात्, एतस्यार्थस्य पूर्व विस्तरतः प्रतिपादितत्वादिति मा स्म प्रस्मरः । एवं च सति क्षीणाष्टकर्मणो योऽतिशयातीत आनन्दो निरवधिकं सुखं सैव मुक्तिरिति भावः । जीवन्मुक्तिलक्षणं तु शरीरावच्छिन्नं केवलज्ञानम् । ननु कथं तर्हि "कृत्स्नकर्मक्षयो मोक्षः" इति ?, परमानन्दसाधकत्वात्, कृत्स्नकर्मक्षयाभावे - परमानन्दरूपाऽसम्पत्तेः। ननु कथं खल्वनादिसम्बन्धधारणबन्धुराणि कर्माणि समर्हन्त्यपगन्तुम्, अनादिभावस्यापि विनाशाभ्युपगमे जीवोऽपि कदाचित् स्वरूपं परिजह्यात्, अनादित्वाविशेषाद् इति चेन, न, अनादित्वस्वीकारेऽपि नाशाभ्युपगमे विरोधानवकाशात्, कश्चैवं व्यधात्प्रतिबन्धम्, यद् अनादिना नैव विनष्टव्य.
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy