SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ न्यायालङ्कारालङ्कृता । १७५ संजोगाइ चउक्त पि सिद्धमत्यंतरे निययं" ॥ १ ॥ ॥११॥ तथास्ति जीवः कायेन्द्रियव्यतिरिक्तः तदुपरमोपि तदुपलधार्थानुस्मरणात् पञ्चवातायनोपलब्धार्थानुस्मचैत्रवत्। १२॥ ___अन्याविज्ञानपूर्वकामिदं बालविज्ञानं विज्ञानत्वात् बाल. विज्ञानपूर्वकयुवविज्ञानवत्, यद्विज्ञानपूर्वकं चेदं बालविज्ञान तच्छरीरादन्यदेव पूर्वशरीरपरित्यागपीहत्यशानकारणत्वात्, तस्य च विज्ञानस्य गुणत्वेन गुणिनमन्तरेणानुपपत्तेस्तच्छरीरव्यतिरिक्तात्मनः सिद्धिः ।। १३ ।। ____ आदिमः स्तनाभिलाषो बालस्यायमन्याभिलाषपूर्वक अनुभवात्मकत्वात् आभिलाषत्वाद्वा साम्प्रतमभिलाषवतः यद. भिलाषपूर्वकश्चायमाद्यः स्तनाभिलाषः स शरीरादन्य एव पूर्वशरीरपरित्यागेपीहत्याभिलाषकारणत्वात्। ततोऽस्याप्याश्रयः इत्तरबाधेनात्मा सिद्धिमारोहति ॥ १४ ॥ - बालशरीरं शरीरान्तरपूर्वकमिन्द्रियादिमत्त्वात्, बालशरीरपूर्वकयुवशरीरवत् यत्पूर्वकं चेदं वालशरीरं तदस्माच्छरीरादर्थान्तरं तदत्ययेपीहत्यशरीरोपादानात्, यस्य चैतच्छरीरं स भवान्तरगामी शरीरादर्थान्तरभूतो देहवानात्मा ॥ १५ ॥ ___अन्यसुखपूर्वकमिदमाद्यं बालसुखं सुखत्वात् साम्प्रतंसुखवत् यत्सुखपूर्वकं चेदमा बालसुखं तच्छरीरादन्यदेव, तदत्ययेपीहत्यसुखकारणत्वात्, गुणश्चायम, न चासौ गुणिनमन्तरेणाऽवस्थास्नुः, अत स्तस्याश्रयो गुणी स देहादर्थान्तरमात्मा। एवं दुःखरागद्वषेभयशोकादयोऽपि योजनीयाः ॥ १६ ॥ .. · इन्द्रियभ्यो भिन्नस्यैव कस्याषीयं घटादिज्ञानलक्षणा मतिः, अन्धत्वबाधिर्याद्यवस्थायामिन्द्रियव्यापाराभावेपि तद्
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy