________________
न्यायालङ्कारालकृता । १६९ प्रत्यक्षमपि सरलसालरसालप्रियालहिन्तालतालतमालपवालकीलालजम्बालप्रभृति वस्तुजातं शून्यवादिनं प्रति भवत्येव प्रसाधनीयमिति चेत्, नैवम् “निरालम्बनाः सर्वे प्रत्ययाः" प्रत्ययस्वात् स्वाप्निकप्रत्ययवत् " इत्यादेस्तदुद्भावितबाधकप्रमाणस्यैव तत्र निराकारात् । प्रकृते त्वात्मग्राहिणि प्रत्यक्षे बाधकप्रमाणाभावात् । किं च कृतवानहम्, करोम्यहम्, करिष्याम्यहम्, "उक्तवानहम्" "ब्रवीम्यहम्" "वक्ष्याम्यहम्" ज्ञातवानहम्, जानेऽहम्, ज्ञास्याम्यहम्, इत्यादिप्रकारेण योऽयं त्रैकालिकः कार्यव्यपदेशः तद्विषयप्रयुज्यमानतया तत्समुद्भूतो योऽयमहंप्रत्ययः एतस्मादपि प्रत्यक्ष एवात्मा । न.खल्वयमहंप्रत्ययःआनुमानिकः अलैङ्गिकत्वात्, नाप्यागमादिप्रमाणसम्भवः, तदनभिज्ञानां बालगोपालादीनामप्यन्तर्मुखतयाऽऽत्मग्राहकत्वेन स्वसंविदितस्य तस्य समुद्भूतेः प्रत्यक्ष एव च गुणी जीवः, स्मृतिजिज्ञासाचिकीर्षाजिगमिषासंशयादितद्गुणानां स्वसंवेदनप्रत्यक्षसिद्धत्वात् इह हि यस्य गुणाः प्रत्यक्षाः स प्रत्यक्ष एवेत्यकलङ्को नियमः । प्रत्यक्षगुणश्चायं जीवः तस्मात् प्रत्यक्षः। ननु कोऽत्र नियमे दृष्टान्त: ?, स्पष्ट एव घटः, प्रत्यक्षरूपादिगुणो हि घटः प्रत्यक्ष एव । न च प्रत्यक्षशब्दगुणकमाकाशमप्रत्यक्षमित्यभिदधुषा शक्यः कलङ्कयितुमसौ नियमः, आकाशस्य शब्दगुणाश्रयत्वाभावात्। एतच्च तत्त्वं प्रागुक्तमेव । न च भवतामपि ज्ञानादिगुणानां गुणी देह एवेति सम्यक्, देहस्य हि भूर्तिमत्त्वेन चाक्षुषत्वेन वाऽतथाभूता ज्ञानादिगुणा घटवत्तस्य न सङ्गात गाते । न खल्वस्ति द्रव्यरहितो गुणः, ततो यो ज्ञानादिगुणानामनुरूपोऽमूर्तः अचाक्षुषश्च गुणी, स देहातिरिक्त आत्मा