SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ १६० प्रमाणपरिभाषा - ननु चानेकान्तेपि विधिप्रतिषेधरूपा सप्तभङ्गी प्रवर्त्तते न वा?, प्रवर्तमानत्वेऽनेकान्तस्य निषेधकल्पनायामेकान्त एव प्राप्त इति तत्पक्षोक्तदोषानुषङ्गः । अप्रवर्त्तमानत्वे सर्वार्थसार्थस्य सप्तभङ्गीमङ्गभङ्गप्रसङ्गः इति चेत्, उच्यते- एकान्तस्तावद् द्विविधः, सम्यगेकान्तः, मिथ्यैकान्तश्च । एवमनेकान्तोपि द्वेधा, सम्यगनैकान्तः मिथ्यानेकान्तश्च । तत्र सम्यगेकान्तस्तावत् प्रमाणविषयीभूतानेकधर्मात्मकवस्तुनिष्ठैकधर्मगोचरो धर्मान्तराप्रतिषेधकः, मिथ्यैकान्तस्तु धर्मान्तरनिराकरणप्रावण्येिन प्रतिनियतधर्ममात्रपक्षपाती । एवं सम्यगनेकान्तः प्रामाणिकास्तित्वादिकानेकधर्मनिरूपणप्रवणः । मिथ्यानेकान्तश्च विरुद्धनानाधर्मपरिकल्पनरूपः । तत्र सम्यगेकान्तो नयः, मिथ्यैकान्तो दुर्नयः । सम्यगनेकान्तः प्रमाणम्, मिथ्यानेकान्तश्च प्रमाणाभासः । एवं च । सम्यगकान्ताने कान्तभेदावाश्रित्य प्रमाणनयार्पणाभेदात् स्यादेकान्तः, स्यादनेकान्तः, स्यादुभयः, स्यादवक्तव्यः, स्यादेकान्तश्रावक्तव्यश्च स्यादनेकान्तश्चावक्तव्यश्च स्यादेकान्तोऽनेकान्तश्रावक्तव्यश्चेति सप्तभङ्गी योजनीया । तत्र नयार्पणादेकान्तो भवति, एकधर्मगोचरत्वात् नयस्य प्रमाणाच्च । नेकान्तो भवति, - अशेषधर्मनिर्णयरूपत्वात् प्रमाणस्येति । यदि पुनरनेकान्तोऽनेकान्त एव स्यात् नत्वेकान्तः, तदैकान्ताभावे तत्समूहरूपस्याने कान्तस्याप्यभावप्रसक्तिः शाखाद्यभावे वृक्षाद्यभाववत् इति । भवति व नित्यत्वादिधर्मेष्वप्येषा सप्तभङ्गी निरूपयितव्या । तथाहि - स्यान्नित्यो घटः स्यादनित्यो घटः इति घटस्य हि द्रव्यरूपेण नित्यत्वम् पर्यायरूपेणानित्यत्वम्, एवं चोत्पादव्ययश्रव्ययुक्तं वस्तु सद्रूपेण भवितुमर्हति तदन्यथारूपेण वस्तुत्वानुपपत्तेः, अर्थक्रिया सामर्थ्य हि वस्तुनो लक्षणमालक्षयांवभूवांसो धीराः, अर्थक्रिया सामर्थ्यस्य चैकान्तनित्यानित्ये प्रागेव प्रति
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy