SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ न्यायालङ्कारालकृता । १४९ सार्थम् " एकत्रवस्तुनि" इति । एकत्रापि जीवादिवस्तुनि विधीयमान निषिध्यमानानन्तधर्मपर्यालोचनयाऽनन्तभङ्गीप्रसक्तिव्यावृत्तये " एकैकधर्मपर्यनुयोगवशात् " इति । अनन्तेवपि धर्मेषु प्रतिधर्म पर्यनुयोगस्य सप्तधैव प्रवर्त्तमानत्वात् तत्मतिवचनस्यापि सप्तविधत्वमेवोपपन्नमित्येकैकस्मिन् धर्म एकैकैव सप्तभङ्गी साधीयसी एवं चानन्तधर्मापेक्षया सप्तभङ्गीनामानन्त्यं यदुपतिष्ठते तदभिमतमेव । प्रत्यक्षादिविरुद्धसदायेकान्तविधिप्रतिषेधकल्पनयापि प्रवृत्तस्य वचनप्रयोगस्य सप्तभङ्गीत्वानुषङ्गभङ्गार्थम् " अविरोधेन " इति । ___अत्र “ पर्यनुयोगवशात्" इति ग्रहणं प्रतिपाद्यप्रश्नानां सप्तविधानामेव सद्भावात् सप्तैव भङ्गा इति नियमसूचनार्थम् । ननु प्रश्नानां सप्तविधत्वं कुतः ? जिज्ञासानां सप्तविधत्वात् इतिब्रूमः प्राश्निकनिष्ठजिज्ञासाप्रतिपादकं वाक्यं हि प्रश्न इत्युक्तेः। ननु जिज्ञासैव सप्तधा इति कथम् ? सप्तधा संशयानामु. मुत्पत्तेः। ननु तथापि संशयस्य सप्तविधत्वं कुत इति वक्तव्यम् ? तद्विषयीभूतधर्माणां सप्तविधत्वात् इत्येव गृहाण । ननु के ते सप्त धर्माः ? उच्यते । कथभित् सत्त्वम् १ कथश्चिदसत्वम् २ क्रमार्पितोभयम् ३ अवक्तव्यत्वम् ४ कथश्चित् सत्वविशिष्टावक्तव्यत्वम् ५ कथश्चिदसत्त्वविशिष्टावक्तव्यत्वम् ६ क्रमार्पितोभयविशिष्टावक्तव्यत्वम् ७ चेति । एवं च दर्शितधर्मविषयकाः सप्तैव संशयाः । अथेमे सप्त भङ्गाः। स्यादस्त्येव घटः इति विधिकल्पनया प्रथमो भङ्गः ॥१॥ स्यानास्त्येव घटः इति निषेधकल्पनया द्वितीयो भङ्गः॥२॥ स्यादस्त्येव स्यानास्त्येवेति क्रमेण विधिनिषेधकल्पनया तृतीयः ॥३॥ स्यादवक्तव्यमेवेति युगपद् विधिनिषेधकल्पनया चतुर्थः।४
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy