SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ न्यायालङ्कारालकृता । १४७ स्याच्छब्दलाञ्छितास्ते नयाः समुदिताः सम्यक्तवं प्रतिपद्यन्ते । ननु प्रत्येकावस्थायां मिथ्यात्वहेतुत्वात् समुदिताः सर्वे महामिथ्यात्वहेतवः कथं न भविष्यन्ति ? प्रचुरविषलव समुदाये विषप्राचुर्यवत् , उच्यते । परस्परविरुद्धा अपि सर्वे नयाः समुदिताः सम्यक्तवं भजन्ते एकस्य जिनसाधोवंशवर्तित्वात् नानाभिप्रायभृत्यवर्गवत् , यथा खलु धनधान्यभूम्याद्यर्थ परस्परं विवदमाना अपि बहवः सम्यग्न्यायशालिना केनाप्युदासीनेन महाजनेन युक्तितो विवादकारणान्यपनीय मील्यन्ते, तथेह परस्परविरोधिनोपि नयान् जिनमुनीन्द्रो विरोध भक्तवा एकत्र मीलयति । तथा प्रचुराविषलवा अपि प्रौढमन्त्रवादिना निर्विषीकृत्य कुष्टादिरोगिणे प्रदत्ता अमृतरूपत्वं प्रतिपद्यन्त एवेत्यन्यत्र विस्तरः। यदूचुः श्रीविनयविजयोपाध्यायाःसर्वे नया अपि विरोधभृतो मिथस्ते __ सम्भूय साधुसमयं भगवन् भजन्ते । भूपा इव प्रतिभटा भुवि सर्वभौम पादाम्बुजं प्रधनयुक्तिपराजिता द्राक् ॥ १॥ इति । स्तुतिकारोप्याहनयास्तव स्यात्पदलाञ्छना इमे रसोपविद्धा इव लोहधातवः । भवन्त्यभिप्रेतफला यतस्ततो भवन्तमार्याः प्रणता हितैषिणः ॥१॥ इति । यच्चाहुः स्तुतिद्वात्रिंशिकायां श्रीरनप्रभसूरयःअहो चित्रं चित्रं तव चरितमेतन्मुनिपते ! स्वकीयानामेषां विविधविषयव्याप्तिवशिनाम् । विपक्षापेक्षाणां कथयसि नयानां सुनयतां विपक्षक्षेप्तृणां पुनरिह विभो! दुष्टनयताम् ॥१॥ इति ।
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy