SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ प्रमाणपरिभाषा - १२० भवत्येष वादजल्पयोर्विशेषः यदूचुः - "दुः शिक्षित कुतर्कांश - लेशवाचालिताननाः । शक्याः किमन्यथा जेतुं वितण्डाटोपमण्डिताः १ ॥ १ ॥ गतानुगतिको लोकः कुमार्ग तत्मतारितः । मा गादिति च्छलादीनि प्राह कारुणिको मुनिः ॥ २ ॥ इति । नैतत् । असदुत्तरैः परप्रतिक्षेपस्य कर्त्तुमयुक्तत्वात् न ह्यन्यायेन जयं यशो वा समीहन्ते महात्मानः । अथ स्यात् प्रतिवादी बलवान्, सम्भाव्यते च तज्जये धर्मध्वंसः, न प्रतिभासेत च' तदानीं प्रतिभापटिमविगमेन सम्यगुत्तरम्, तर्हि असदुत्तरैरपि पांशुभिरिवाव किरनेकान्तपराजयाद्वरं तत्र सन्देह इति धिया न दोषमावक्ष्यतीति चेत्; तत्राप्यापवादिकजात्युत्तरप्रयोग सद्भावेऽपि कथान्तरभावः कथं स्यात् । न हि वाद एव द्रव्यक्षेत्रकाल - भावानुसारेणासदुत्तरप्रयोगेऽपि कचित् प्रसज्येत कथान्तरत्वमिति जल्पवितण्डाप्रत्याख्यानेन वाद एवैकः कथापदवी सुभग इति ।। ५० ।। ननु वादे यदि वादिप्रतिवादिनौ द्वावपि जिगीषू, एको वा जिगीषुः अन्यः परात्मनि तत्त्वनिर्णिनीषुच, तत्र शाठ्यकलहादिसम्भवे जयपराजयव्यवस्था कुतः स्यात् १; तथाविधशासनपतिप्राश्निकाभावादित्यत्राह सविजिगीषुको वादि-प्रतिवादि-सभ्यसभापतिभिश्चतुरङ्गः ॥ ५१ ॥ वाद इत्यनुवर्त्तते, उत्तरत्र च सह विजिगीषुणा वादिना प्रतिवादिना वा उभाभ्यां ताभ्यां विजिगीषुभ्यां वेति सविजिगीषुको वादश्चतुरङ्गः, वाक्यस्यासति बाधके सावधारणत्वात्
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy