SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ ९८ प्रमाणपरिभाषा दृष्टान्तवचनं साधर्योदाहरणम् । वैधHदृष्टान्तवचनं वैधयोदाहरणम् ; यथा यो यो धूमवान् स स वन्हिमान् यथा महानसः, योऽग्निमान् नास्ति नासौ धूमवान् यथा जलाशय इति क्रमेणोदाहरणद्वयोदाहरणम् ॥ ३१ ॥ दृष्टान्तनिर्देश इत्यत्र दृष्टान्तजिज्ञासामुपशमयतिव्याप्तिप्रतिपत्तिप्रदेशो दृष्टान्तः ॥३२॥ व्याप्तिः साध्यसाधनयोरविनामावलक्षणा । तस्याः प्रतिपत्तिः प्रतिसन्धिः । सा यत्र प्रादुःष्यादसौ तत्पदेशो दृष्टौ अन्तौ साध्यसाधनरूपी धर्मों यत्रेति दृष्टान्तः॥ ३२ ॥ प्रकारतोऽमुं प्रकटयति- . साधर्म्यवैधाभ्यां द्विप्रकारः ॥३३॥ दृष्टान्त इत्यनुवर्तते समानो धर्मो यस्यासौ सधर्मा विसदृशो धर्मों यस्यासौ विधर्मा तयोर्भावः साधयं वैधयं च ॥ ३३॥ तत्र साधर्म्यदृष्टान्तं दर्शयतिसाधनसत्त्वे नियमेन साध्यवान् साधर्म्यदृष्टान्तः ॥३४॥ . यथा यत्र यत्र धृमस्तत्र तत्रानलः, यथा पाकप्रदेशः॥३४॥ वैधर्म्यदृष्टान्तमाचष्टेसाध्याभावे साधनाभाववान् वैधर्म्य दृष्टान्तः॥३५॥ नियमेनेति वर्तते । असति साध्ये नियमेन साधनाभाववानित्यर्थः, यथाऽसति कृशानौ न भवत्येव धूमः, यथा जलाशयः॥३५॥
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy