SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ૮. प्रमाणपरिभाषा - | sस्य । ननु कथं धर्मी पक्षो धर्मधर्मिसमुदायस्य तच्चादिति चेत् ? । न, साध्यधर्मविशेषणविशिष्टतया धर्मिणः साधयितुमिष्टस्य पक्षाभिधाने दोषाभावात् । कचिदिति - व्याप्तिग्रहणसमये त्वमेयधर्मो वह्नयादिः साध्यपदार्थः इतरथा व्याप्त्यनुपपत्तेः, न हि यत्र यत्र धूमस्तत्र तत्र पर्वतस्याप्यस्त्यनुवृत्तिरिति ॥ २० ॥ अथ धर्मी कीदृशः स्यादित्यत्राह -- प्रमाण-विकल्पो भयप्रसिद्ध धर्मी ॥२१॥ धर्मी तावत् त्रेधाः प्रमाणप्रसिद्धः, विकल्पप्रसिद्धः, तदुभयप्रसिद्धव । तत्र निश्चितप्रामाण्यकप्रत्यक्षाद्यन्यतमावधृतत्वं प्रमाणप्रसिद्धत्वम् । अनिश्चितप्रामाण्याप्रामाण्यप्रत्ययगोचरत्वं विकल्पप्रसिद्धत्वम् । तद्वयविषयत्वं प्रमाणविकल्पोभयप्रसिद्धत्वम् । तत्र प्रमाणप्रसिद्धो धर्मी यथा - धूमादनौ साध्ये पर्वतः स खलु प्रत्यक्षप्रमाणेन प्रमीयते । विकल्पप्रसिद्धो यथा - समस्ति सर्वज्ञः सुनिश्चि ताऽसम्भवद्भाधकप्रमाणत्वात्, इत्यत्र सर्वज्ञः अथवा नास्ति खरविषाणमित्यत्र खरः; अत्र हि सर्वज्ञोऽस्तित्वसिद्धेः प्राग् न प्रत्यक्षादिप्रमाणसिद्धः, अपितु प्रतीतिमात्रसिद्ध इति विकल्पप्रसिद्धोऽयं धर्मी एवं खरविषाणमपि नास्तित्वसिद्धेः प्राग् विकल्पसिद्धमेव । उभयसिद्धो धर्मी यथा - शब्दः परिणामी कृतकत्वादित्यत्रशब्दः स हि वर्त्तमानः प्रत्यक्षगम्यो भूतो भविष्यंश्व विकल्पगम्यः, इत्यसौ सर्वोऽपि धर्मीति प्रमाणविकल्पमसिद्धो धर्मीति त्रिधा धर्मीति व्यवस्थितम् ॥ २१ ॥ ननूक्तलक्षण साध्यधर्मिणि कीदृशा साध्यधर्मेण भवनीयम् १ | अत्राहविकल्पप्रसिद्धः सत्तेतरसाध्यः ॥ २२ ॥ विकल्पप्रसिद्धे धर्मिणि सत्ता अस्तित्वं साधनीयं
SR No.022390
Book TitlePraman Paribhasha
Original Sutra AuthorN/A
AuthorDharmsuri, Nyayvijay
PublisherHarashchand Bhurabhai
Publication Year1914
Total Pages236
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy