________________
शास्त्रवार्तासमुच्चयः।
[द्वितीयः इत्यर्थः, अशुभं कर्म दुःखफलदं पापं कर्म, जायते इत्यनेन सम्बन्धः, तदन्येभ्यश्च हिंसादिभिन्नेभ्यश्च, अहिंसा-सत्याऽ-स्तेय-ब्रह्मचर्या-अपरिग्रहेभ्यो विरत्यादिकारणेभ्य इति यावत् , शुभं सुखफलदं पुण्यम् , तत् कर्म, जायते निष्पद्यते, अयं नियमः तदेवमेवेत्येवंरूपः प्रतिनियतहेतुहेतुमद्भावनिश्चयः, कुतः कस्मात् , मानात् प्रमाणात् , इति च एवं सन्दिहानाः, अपरे वादिनः, प्राहुरिति शेषः । सन्देहश्चात्र-अधर्मो हिंसाद्यविरतिकारणजन्यो न वेत्येवंरूपोऽधर्मपदवाच्यत्वावच्छिन्ना या अविरतिकारणजन्यत्वत्वावच्छिन्नप्रकारतानिरूपिता सती अविरतिकारणजन्यत्वत्वावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्नप्रकारतानिरूपिता विशेष्यता तन्निरूपकज्ञानात्मकः, एवं सति एकत्र द्वयमिति रीत्या जायमानाज्ज्ञानादस्य वैलक्षण्यं स्यात् , ततश्च विशेष्यताद्वयं संशयेऽभ्युपगन्तव्यं, तथाऽपि समुच्चयाद वैलक्षण्यं न भवेत् , तस्मात् संशयीयविशेष्यत्वयोरभेदोऽवच्छेद्यावच्छेदकभावो वाऽभ्युपगन्तव्यः, तथा सति हिंसाद्यविरतिकारणजन्यत्वत्वावच्छिन्नप्रकारतानिरूपिताधर्मपदवाच्यत्वावच्छिन्नविशेष्यत्वाभिन्ना तादृशविशेष्यत्वावच्छेद्या वा या हिंसाद्यविरतिकारणजन्यत्वत्वावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्नप्रकारतानिरूपिताऽधर्मपदवाच्यत्वावच्छिन्ना विशेष्यता तन्निरूपकं ज्ञानमिति, धर्मोऽहिंसादिविरतिकारणजन्यो न वेति संशयश्व-अहिं. सादिविरतिकारणजन्यत्वत्वावच्छिन्नप्रकारतानिरूपितधर्मपदवाच्यत्वावच्छिन्नविशेष्यत्वाभिन्ना तादृशविशेष्यत्वावच्छेद्या वा या अहिंसादिविरतिकारणजन्यत्वत्वावच्छिन्नप्रतियोगिताकाभावत्वावच्छिन्नप्रकारतानिरूपिता धर्मपदवाच्यत्वावच्छिन्ना विशेष्यता तन्निरूपकं ज्ञानमिति, तदेतत् संशयद्वयं धर्मपदप्रवृत्तिनिमित्तं सुखत्वावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकं धर्मत्वाख्यं जातिविशेष, तथाऽधर्मपदप्रवृत्तिनिमित्तं दुःखत्वावच्छिन्नकार्यतानिरूपितकारणतावच्छेदकमधर्मत्वाख्यं जातिविशेषं च ये न जानन्ति तेषामेवाव्युत्पन्नानां भवितुमर्हति, यतस्तेऽधर्मपदवाच्यः कश्चिदस्ति धर्मपदवाच्यश्च कश्चिदस्तीत्येवमेव धर्मादिरूपधर्मिज्ञानवन्तः, अन्यथा संशये धर्मिज्ञानं कारणमिति धर्मत्वाद्यवच्छिन्नविशेष्यकसंशयार्थ धर्मत्वादिना धर्मादिरूपधर्मिज्ञानस्यावश्यकतया तज्ज्ञानजनकमानेन हिंसादिजन्यतयाऽधर्मस्याहिंसादिजन्यजन्यतया धर्मस्य ज्ञानं, न त्वन्यथेति धर्मिग्राहकमानेन हिंसादिभ्यो धर्मो हिंसादिभ्योऽधर्म इत्येवं प्रतिनियतहेतुहेतुमद्भावनिश्चयत एव धर्मा-ऽधर्मयोः सिद्धावीदृशशङ्कोन्मेषोऽपि न भवेदिति ॥१॥११३॥