SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ १२४ शास्त्रवार्तासमुच्चयः । “असत्त्वान्नास्ति सम्बन्धः कारणैः सत्त्वसङ्गिभिः । असम्बद्धेषु चोत्पत्तिमिच्छतो न व्यवस्थितिः ॥ १ ॥ " इति; [ तृतीयः · तथाऽसन्न शक्यमिति न तत्र किञ्चिच्छक्तमिति शक्तस्य शक्यकरणात् सत् कार्यम्, तथाहि - अशक्तस्य जनकत्वे कपालादेरिव तन्त्वादेरपि घटादिकार्यं प्रत्यशक्तत्वाविशेषात् कपालादेरिव तन्त्वादेरपि घटादेरुत्पत्तिः प्रसज्यत इति यत् कारणं यत्र शक्तं तत् कारणं तत् कार्यं करोतीत्येवं शक्तस्य जनकत्वं वाच्यम्, अतिप्रसङ्गपरिहाराय प्रतिनियतकार्यनिरूपिता प्रतिनियतकारणगतैव शक्तिरिति कथमसति कार्ये कारणस्य शक्तिर्नियता स्यात् ?, असतो विषयत्वायोगात्, तस्मात् कारणात् प्रागपि शक्यं सदेव; तथा कारणभावात् कारणतादात्म्यादपि सत् कार्यम्, अवयवा ऽवयविनोस्तादात्म्यमेव, अवयवेभ्यो भिन्नतयाऽवयविनः प्रतीत्यभावात्, कपालं घटीभूतम्, तन्तुः पटीभूतः, स्वर्ण कुण्डली भूतमित्यादितत्तादात्म्यावगाहिप्रतीतेरेव भावात्, तस्माद् महदादिकार्यस्योत्पत्तेः प्रागपि यत्र सत्त्वं सा प्रकृतिः, ततो बुद्ध्यपरनामकं महत्तत्त्वमुत्पद्यते, न हि चैतन्यस्य स्वभावतो विषयावच्छिन्नत्वम्, अनिर्मोक्षापत्तेः, नापि प्रकृत्यधीनं विषयावच्छिन्नत्वं चैतन्यस्य, ' तस्या अप नित्यतया तदधीनस्य विषयावच्छिन्नत्वस्य चैतन्ये सर्वदाऽभावेनानिर्मोक्षापत्तितादवस्थ्यात् नापि प्रकृत्यादिकमस्वीकृत्य साक्षादेव घटादिश्चैतन्यावच्छिन्नः, तथा सति व्यापक चैतन्यावच्छेदस्य विषयमात्रे सर्वदैव भावे सर्वं दृष्टमेव स्यान्नादृष्टमिि दृष्टादृष्टतत्त्वानुपपत्तेः, न चेन्द्रियमात्रापेक्षा घटादिचैतन्यावच्छेदः, इन्द्रियविषयसम्बन्धेऽपि अन्यगतचित्तस्येन्द्रियसम्बद्धविषयकज्ञानाभावलक्षणस्य व्यासङ्गस्यानुपपत्तेः, अतो यत्सम्बद्धेन्द्रियस्य विषयचैतन्यावच्छेदनियामकत्वं यद्व्यापाराच्च सुषुप्ताविन्द्रियादिव्यापारविरतावपि श्वास-प्रश्वासादि तन्महत्तत्त्वं बुद्धिरित्याख्यायते, तस्य धर्माज्ञानाऽज्ञानैश्वर्या-ऽनैश्वर्य-वैराग्याऽवैराग्य-धर्मा-धर्मरूपा अष्टौ, बुद्धिसुख-दुःखेच्छा-द्वेष प्रयत्ना अपि महत्तत्त्वस्यैव धर्माः, अनुभवस्य स्मृतिपर्यन्तं यत्सूक्ष्मरूपतयाऽवस्थानं तस्यैव भावनात्वेनातिरिक्तायास्तस्यास्तैरनभ्युपगमात्, तस्य महत्तत्त्वस्य ज्ञानरूपपरिणामेन सम्बद्धो विषयः पुरुषस्य स्वरूपतिरोधायकः, एवं च बुद्धितत्त्वनाशादेव पुंसो विषयावच्छेदाभावान्मोक्षः, महत्तत्त्व - पुरुषयोर्भेदाग्रहाच्च 'चेतनोऽहं करोमि' इत्यध्यवसायः, अचेतनप्रकृतिकार्याया बुद्धेरचेतनायाचैतन्याभिमानान्यथानुपपत्त्यैव स्वाभाविकचैतन्यरूपस्य पुरुषस्य सिद्धेः । आलोचनं व्यापार इन्द्रियाणाम्, विकल्पस्तु मानसः, अभिमानोऽहङ्कारस्य, कृत्यध्यवसायो "
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy