SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः ११७ ईश्वर इति । परमात्मैव यः कश्चित् सर्वज्ञः स एव ईश्वर इत्यामनन्ति श्रीमन्तो हरिभद्रसूरयः, उपाध्यायास्तु-कायादेर्बहिरात्मनो ध्यातुभिन्नत्वेन ज्ञेयादन्तरात्मनश्च तदधिष्ठायकस्य ध्यातुध्येयैकस्वभावत्वेन भिन्नोऽनन्तज्ञान-दर्शनसम्पदुपेतो वीतराग एवेश्वर इत्युशन्ति, तैरेव अन्येषां सूरीणां बाह्यात्म-परमात्माऽन्तरात्मनां विभजनमित्थं प्रकटितम् - "अन्ये तु मिथ्यादर्शनादिभावपरिणतो बाद्यात्मा, सम्यग्दर्शनादिपरिणतस्त्वन्तरात्मा, केवलज्ञानादिपरिणतस्तु परमात्मा, तत्र व्यक्त्या बाह्यात्मा-शक्त्या परमात्मा, अन्तरात्मा च, व्यक्त्याऽन्तरात्मा तु-शक्त्या परमात्मा, भूतपूर्वनयेन च बाह्यात्मा, व्यक्त्या परमात्मा तु-भूतपूर्वनयेनैव बाह्यात्मा, अन्तरात्मा चेत्याहुः” इति, एतन्मते एकस्यैवात्मन एकदैवापेक्षाभेदेन बाह्यात्मत्वं परमात्मत्वमन्तरात्मत्वं च विभिन्नकालीनपरस्परविभिन्नपरिणतिस्वरूपात्मगतमपीति बोध्यम् । तदुक्तव्रतसेवनात् निरुक्तपरमात्मस्वरूपेश्वरप्रणीतागमजन्यकर्तव्यत्वप्रकारकज्ञाननिरूपितविशेष्यतात्वं च महाव्रतात्मकसंयमाचरणात्, यतः यस्मात् कारणात् , मुक्तिः ज्ञानावरणाद्यष्टविधकर्मक्षयलक्षणा, भवतीति शेषः, ततः तस्मात् कारणात् , तस्याः कर्मक्षयलक्षणाया मुक्तेः, गुणभावतः उपचारतः, उपचारनिमित्तं च फलदोपासकत्वम् ; यद्यपि यथा राज्ञोऽप्रसादनियतः प्रसादः, तथा नेश्वरस्य, तस्य प्रसादा-ऽप्रसादयोरुभयोरप्यभावात् , तथापि चिन्तामणिर्यथा न प्रसन्नो नाप्यप्रसन्नोऽचेतनत्वात् तथापि स्वसन्निहितपुरुषाय चिन्तानुरूपं फलं प्रयच्छति स्वस्वाभाव्यात् , तथोदासीनस्यापीश्वरस्य स्वस्वाभाव्यादेवोपासना स्वकर्ने फलं ददातीति भवति फलदोपासकत्वमीश्वरस्य, कर्ता स्यात् कर्ता भवेत् , वस्तुस्वभावबलात् फलदोपासनाकत्वादेव भगवन्तमुद्दिश्यारोग्यादिप्रार्थना सुसङ्गता, हे भगवन् ! त्वं मह्यमारोग्यादिकं देहीत्यादिवाक्यस्वरूपप्रार्थनायां सार्थकत्वानर्थकत्वचिन्तायां भाज्यमेतत् , चतुर्थभाषारूपत्वादित्यर्थकं 'भगवन्तमुद्दिश्यारोग्यादिप्रार्थना सार्थकानर्थकचिन्तायां तु भाज्यमेतत् , चतुर्थभाषारूपत्वादिति वचनं ग्रन्थकृतैव ललितविस्तरायामुक्तम् , प्रसादाप्रसादान्यतररहितत्वादप्रार्थनीयेऽकर्तरि भवति प्रार्थनाया विधिपालनबलेन शुभाध्यवसायमात्रफलत्वादित्यभिप्रायं हारिभद्रवचसो वर्णयन्त्युपाध्यायाः, ॥ ११ ॥ २०४ ॥ Ww M
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy