________________
शास्त्रवार्तासमुच्चयः ।
"
येति चेत् ?, एवं सति अयोगोलकं धूमवद् वह्नेरित्येवमनुमानप्रयोगेऽयोगोलकस्य पक्षीकुलत्वात् तत्र व्यभिचारो नोद्भावनीयः स्यादित्येवं यत्र यत्र व्यभिचारस्तस्य पक्षीकरणतः कोऽपि हेतुरनैकान्तिको न भवेदित्याशयः ॥ ७ ॥ २०० ॥ आदिसर्गे स्वातन्त्र्यादीश्वरस्यैव कर्तृत्वमित्याशङ्क्य प्रतिक्षिपतिआदिसर्गेऽपि नो हेतुः कृतकृत्यस्य विद्यते । प्रतिज्ञातविरोधित्वात्, स्वभावोऽप्यप्रमाणकः ॥ ८ ॥ २०१ ॥ आदिसर्गेऽपीति-सर्गध्वंसासमानकालीनसर्गेऽपीत्यर्थः, कृतकृत्यस्य वीतरागस्य हेतुः आदिसर्गकरणप्रयोजनं, न विद्यते न समस्ति, यदि किञ्चित् - प्रयोजनं स्याद् वीतरागत्वमेव तस्य प्रतिज्ञातं हीयेत, स्वभावोऽपि एवंभूत एवास्य स्वभावो यत् प्रयोजनाभावेऽप्यादिसर्ग स्वातन्त्र्येणैव करोति कालान्तरे त्वदृष्टापेक्षया करोत्यपि, अप्रमाणकः यदीश्वरः केनचित् प्रमाणेन सिद्धः स्यात् तदा तत्रोक्तस्वभावः कल्पयितुं शक्येतापि, तदसिद्धौ च कुत्र स स्वभावः कल्पनीय इत्याशयः ॥ ८ ॥ २०१ ॥
९४
[ तृतीयः
कर्मादिकमीश्वरानपेक्षमेव जगत् करोतीत्येवमुपगमे न कश्चिद् दोषः, नहि चेतनस्य प्रयोजनमनुद्दिश्य प्रवृत्तिः सम्भवतीत्यतः कर्मानपेक्षत्वलक्षणस्वातन्त्र्येणेश्वरस्य जगत्कर्तृत्वं कृतकृत्यत्वव्याघातकं कर्मसापेक्षस्यापि तस्य जगत्कर्तृत्वं कृतकृत्यत्वव्याघातकम्, फलेच्छाया आवश्यकत्वेन वीतरागत्वासम्भवादित्याह - कर्मादेस्तत्स्वभावत्वे, न किञ्चिद् बाध्यते विभोः ।
"
विभोस्तु तत्स्वभावत्वे, कृतकृत्यत्वबाधनम् ॥ ९ ॥ २०२ ॥ कर्मादेरिति - आदिपदात् काल- नियत्यादेरुपग्रहः, तत्स्वभावत्वे ईश्वरानपेक्षमेव कर्मादिकं जगत् करोतीत्येवम्भूतस्वभावत्वे, विभोः सर्वविषयकज्ञानादिमतः परमेश्वरस्य, न किञ्चित् न किमपि बाध्यते व्याहतं भवति, प्रत्युत अनुपकारित्वेन वीतरागत्वं तस्य दृढं भवति, वीतरागत्वादेव च न जगत्कर्तृत्वमित्यपि सुदृढं सम्पद्यते, तु पुनः, विभोः निरुक्तलक्षणपरमेश्वरस्य, तत्स्वभावत्वे स्वभिन्नदृष्टादिकारणानपेक्षत्वलक्षणस्वातन्त्र्येण स्वभिन्नकर्मादिकारणसापेक्षतया वा जगज्जननस्वभावत्वे, कृतकृत्यत्वबाधनम् जगत्सर्जनप्रयोजनेच्छाया आवश्यकत्वेन कृतकृत्यत्वं न स्यात्, यदि कर्तव्यं किमपि न भवेत् तदैव कृतकृत्यता भवति, तस्य तु जगत्सर्जन प्रयोजनसम्पादनं कर्तव्यमवशिष्टमेवेति वीतरागत्वमपि व्याह