SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः। [द्वितीयः न च स्वभाववादिभिरस्माभिः कारकहेतुप्रतिक्षेप एव क्रियते, न किञ्चित् कारणं, कार्य न सहेतुकमित्यादिप्रतिज्ञायां साध्यसाधनाय यः कश्चिद्धेतुरुपादीयते स ज्ञापक एक हेतुरिति तदुपन्यासेऽपि न स्वपक्षबाध इति वाच्यम् , ज्ञापकत्वस्य ज्ञानजनकत्वरूपतया तत्स्वीकारेऽपि कारणत्वस्वीकारस्याज्ञातत्वेन स्वपक्षहानेरनिवार्यत्वात् , अहेतुकतयाऽभ्युपगतस्य कार्यस्यानियतावधित्वे यद्दिने यस्योत्पादस्ततः पूर्वदिनेऽपि तदुत्पादः, एवं तत्पूर्वदिनेऽपि तदुत्पाद इत्येवमनादित्वे पूर्वकालासत्युत्तरकालसत्त्वलक्षणं कादाचित्कत्वं न स्यादिति कादाचित्कत्वान्यथानुपपत्या, नियतावधित्वे य एव नियतः पूर्वोऽवधिः स एव कार्यनियतपूर्ववर्तित्वात् कारणमिति कारणत्वस्वीकारस्याऽऽवश्यकत्वात् , अनियतस्यावधित्वप्रतीतौ वढेधूम इतिवद् गर्दभाद् धूम इत्यपि प्रतीयेतेति बोध्यम् ॥ ७६ ॥ १८८ ॥ स्वभावैकान्तवादवत् कालैकान्तवादोऽप्युक्तयुक्तित एवापास्त इत्याहकालोऽपि समयादिर्यत् , केवलः सोऽपि कारणम् । तत एव ह्यसंभूतेः, कस्यचिन्नोपपद्यते ॥ ७७॥१८९ ॥ कालोऽपीति । समयादिः समयादिस्वरूपः कालोऽपि क्लुप्तद्रव्यस्य वर्तनादिलक्षणः पर्यायस्वरूपः, अतिरिक्तस्य कालद्रव्यस्य पर्यायो वा, यत् यस्मात् कारणात् , केवलः अन्यनिरपेक्षः सन् , सोऽपि कालोऽपि, स्वभाववत् कारणं कालवादिभिरिष्यते, किन्तु हि निश्चितं, कस्यचित् कस्यापि वस्तुनः, तत एव अन्यनिरपेक्षकालमात्रात् , असम्भूतेः अनुत्पत्तेः, नोपपद्यते कालः कारणमिति न युज्यते, 'कालोऽपि समयादिरूपो यस्मात् केवलस्तस्मानिश्चितं तत एवान्यनिरपेक्षकालत एव कस्यचिद् वस्तुनोऽनुत्पत्तेः कालोऽपि कारणं न सङ्गच्छते' इत्येवमन्वयार्थोऽवसेयः, यस्मिन् ‘समये एकं कार्य केवलात् कालादप्युपजायते तस्मिन्नेव समये केवलकालरूपकारणबलात् कार्यान्तरमप्युपपद्यत इति युगपत् सर्वकार्योत्पत्तिप्रसङ्गः; न च तत्क्षणवृत्तिकार्ये तत्पूर्वक्षणस्य हेतुत्वान्न दोष इति वाच्यम् ; अग्रभाविनोऽपि तत्क्षण एव संभवेन तत्क्षणवृत्तिकार्यत्वरूपकार्यतावच्छेदकाक्रान्तत्वात् , तत्क्षणवृत्तिकार्ये तत्पूर्वक्षणत्वेन हेतुत्वं तदुत्तरक्षणविशिष्टकार्य तत्क्षणत्वेन हेतुत्वमित्यत्र विनिगमनाविरहाच्च, कारणस्य कार्यतावच्छेदककोटौ निवेशस्यादुष्टत्वे तदव्यवहितोत्तरत्वावच्छिन्नं प्रति तत्त्वेन हेतुत्वमित्यस्यैव सम्यक्त्वे कारणतावच्छेदककोटौ क्षणत्वनिवेशस्यापि वैयर्थ्यांपत्तेः ॥ ७७ ॥ १८९ ॥
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy