SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ ६१ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः घटजनकनियतेः पटजनकत्वाभावेऽभ्युपगम्यमाने पटजनकनियतितो भेदापादनमिष्टापत्तिरूपत्वान्न दोषावहम् , इत्थं सत्येव कार्यवैचित्र्यनिर्वाहकतया नियत्यभ्युपगमस्य युक्तत्वादिति पराशङ्का प्रतिक्षिपति न च तन्मात्रभावादेयुज्यतेऽस्या विचित्रता । तदन्यभेदकं मुक्त्वा, सम्यग्यायाविरोधतः ॥ ७० ॥१८२॥ न चेति-नैवेत्यर्थः, तन्मात्रभावादेः आदिपदात् परिणामपरिग्रहः, तथा च नियतिमात्रत्व-परिणामाभ्यां सकाशादित्यर्थः, युज्यते घटते, अस्याः प्रतिनियतकार्यजनकनियतेः, तदन्यभेदकं नियत्यन्यभेदकं, “तदन्यत् नियतिभिन्नं भेदकं वस्तु" इति हरिभद्रसूरिव्याख्यानस्वारस्यात् तत्सम्मतः “तदन्यद् भेदकं” इति पाठः, मुक्त्वा विहाय, अनपगम्येति यावत् , सम्यग्न्यायाविरोधतः सत्तर्काप्रातिकूल्येन, विचित्रता वैचित्र्यम् , स्यात् भवेत् , तथा च नियतिवैचित्र्यं तदैव भवेद् यदि नियतिभिन्नं किञ्चिद् वस्तु नियतेरेकस्या अपरस्या नियतेर्भेदकमभ्युपगम्येत, तथाऽभ्युपगमे च विलीनं नियतिमात्रैकान्ताभ्युपगमवादेनेति भावः ॥ ७० ॥ १८२ ॥ समानजातीयस्यावान्तरवैचित्र्यं भिन्नकारणमन्तरेण न सम्भवतीत्येतदेव दृष्टान्तावष्टम्भेन प्रकटयति न जलस्यैकरूपस्य, वियत्पाताद् विचित्रता । ऊपरादिधराभेदमन्तरेणोपजायते ॥ ७१ ॥ १८३॥ 'नेति-अस्य 'उपजायते' इत्यनेन सम्बन्धः, जलस्यैकरूपस्य जलत्वेन समानस्य जलस्य सतः, वियत्पातात् अभ्रतः पतनात् , ऊषरादिधराभेदम् ऊपरतदितरपृथिवीसम्पर्कजन्यवर्णगन्धरसस्पर्शादिवैलक्षण्यं, मुक्त्वा अन्तरेण, विचित्रता निरुक्तवैलक्षण्यप्रयुक्तवैलक्षण्यं, नोपजायते जायमानं न दृश्यते, सर्वलोकप्रसिद्धमेवैतत् , तथा नियतेरपि नियतित्वेन समानाया अवान्तरभेदो नान्यभेदकं विनेति ॥ ७१ ॥ १८३ ॥ नियतेरप्यवान्तरभेदनिबन्धनमन्यद् वस्तु नाम, ततः किमित्यत आहतद्भिन्नभेदकत्वे च, तत्र तस्या न कर्तृता । तत्कर्तृत्वे च चित्रत्वं, तद्वत् तस्याप्यसङ्गतम् ॥७२॥१८४॥
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy