SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । [द्वितीयः प्रसङ्गाद् वातान्तरमुपदर्शयतिकालादीनां च कर्तृत्वं, मन्यन्तेऽन्ये प्रवादिनः। केवलानां तदन्ये तु, मिथः सामग्र्यपेक्षया ॥५२॥ १६४ ॥ कालादीनां चेति-आदिपदात् स्वभाव-नियति-दैव-पुरुषकाराणामुपग्रहः, तथा च काल-स्वभाव-नियति-दैव-पुरुषकाराणामित्यर्थः, अन्ये प्रवादिनः स्याद्वादवादिभिन्नाः कालादिवादिनः, एकान्तकालादिकारणतावादिन इति यावत्, केवलानामिति कालादीनां विशेषणं, क्लुप्तस्वव्यतिरिक्तहेतुरहितानामिति तदर्थः, कर्तृत्वं असाधारणकारणत्वं, कृतिमत्त्वलक्षणकर्तृत्वस्य कालादिष्वभावात् , मन्यन्ते अभ्युप- - गच्छन्ति, तदन्ये तु एकान्तकालादिकारणत्ववादिभिन्नाः पुनः, अनेकान्तवादिनः पुनरिति यावत् , मिथः परस्परं, सामग्र्यपेक्षया एकसामग्रीप्रविष्टत्वेन, कर्तृत्वं मन्यन्ते इत्यनुषज्यते, तथा च कालादीनामेकसामग्रीप्रविष्टत्वेन परस्परसहकारिभावलक्षणं कर्तृत्वमनेकान्तवादिनो मन्यन्ते, तदुक्तं सम्मतिकृता "कालो सहाव-णियई पुवकयं पुरिसकारणेगंता। मिच्छत्तं ते चेव उ समासओ हुँति सम्मत्तं ॥ १५० ॥" "कालः स्वभाव-नियती पूर्वकृतं पुरुषकारणमेकान्तात्। मिथ्यात्वं त एव तु समासतो भवन्ति सम्यक्त्वम्” इति संस्कृतम् ॥ ५२ ॥ १६४ ॥ तत्र पूर्व सोपपत्तिकं कालैकान्तकारणतावादिमतमुपदर्शयतिन कालव्यतिरेकेण, गर्भबालशुभादिकम् ।। यत् किञ्चिजायते लोके, तदसौ कारणं किल ॥५३॥१६५॥ न कालव्यतिरेकेणेति । गर्भकालशुभादिकमित्यनन्तरं भवतीति क्रियापदं दृश्यम्, तत्र ननोऽन्वयः, कालव्यतिरेकेण कालरूपकारणं विना, गर्भ-काल-शुभादिकं स्त्रीपुंससंभोगप्रभवत्वेन पराभिप्रेतस्यापि गर्भस्य जन्मकालव्यतिरेकेण न भवति, ननु गर्भो दशममासि मनुष्यादीनामन्येषां च यदा परिपूर्णतामेति तदा परिपूर्णतापरिणतिमितो गर्भो बहिनिःसरतीति बालजन्मनि गर्भपरिणतिरेव हेतुरिति चेत् ? न-अपरिणतेऽपि गर्भे कदाचित् सप्तमे कदाचिदष्टमे कदाचिन्नवमे मासि कदाचिदन्यदाऽपि जन्मदर्शनेन व्यभिचारेण गर्भपरिणतेजन्मनि कारणत्वाभावात् , तथा कालोपाधित्वात् कालतया व्यवह्रियमाणो
SR No.022389
Book TitleShastra Vartta Samucchay Part 02
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1956
Total Pages262
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy