SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः १७९ हेतुत्वात् , अन्यथा ज्ञानस्वीकारेऽपि तुल्यत्वात् ; स्मरणान्यथानुपपत्त्येति चेत् ? न-तस्याप्यसिद्धः, अस्ति तावद्व्यवहारनिमित्तं किञ्चिदिति चेत् किमतः?, नह्येतावता ज्ञानं तदिति सिद्ध्यति, तस्यैवासिद्धेः; तथापि नियतस्य कर्तुः प्रवृत्तेः कर्तृधर्मेणैव केनचित् प्रवृत्तिहेतुना भवितव्यमिति चेत् ? अस्त्विच्छा प्रत्यक्षसिद्धा, न तु ज्ञानम् ; सैव कथं नियताधिकरणे उत्पद्यतामिति चेत् ? तत एवेच्छाऽस्तु, किं ज्ञानकल्पनयेति; स्यादेतत्-प्रकाशमाने खल्वर्थे तदुपादित्सादिरुपजायते, न तु सुषुप्त्यवस्थायामप्रकाशमानेऽप्यर्थे इत्यनुभवसिद्धम् , तत इच्छायाः कारणं विलक्षणमेव किञ्चित् परिकल्पनीयम् , यस्मिन् सति सुष्वापलक्षणमौदासीन्यमर्थविषयमात्मनो निवर्तते इति चेत् ? हन्तैवं सुष्वपनिवृत्तिमनुभवसिद्धां प्रतिजानानेन ज्ञानमेवापरोक्षमिष्यते, अचेतयन्नेव हि सुषुप्त इत्युच्यते, मचैतन्यनिवृत्तिरेव हि चैतन्यं ज्ञानमिति, तथा च कालात्ययापदिष्टो हेतुः; एतेन क्षणिकत्वादिति निरस्तम् ; अपि च, किमिदं क्षणिकत्वं नाम?, यद्याशुतरविनाशित्वं, तदा अनैकान्तिकम् , अथैकक्षणावस्थायित्वं, तदसिद्धं प्रमाणाभावात् ; ननु स्थायिविज्ञानं यादृशमर्थक्षणं गृह्णदुपपद्यते, द्वितीयेऽपि क्षणे किं तादृशमेव गृह्णाति? अन्यादृशं वा?, नवा कमपीति?, न प्रथमः, तस्य क्षणस्यातीतत्वात् , प्रथमज्ञानस्य च वर्तमानाभत्वात् , न चातीतमेव वर्तमानाभतयोल्लिखति, भ्रान्तत्वप्रसङ्गात् ; न द्वितीयः, विरम्य व्यापारायोगात्, प्रथमतोऽपि तथाऽभ्युपगमेऽनागतापेक्षणप्रसङ्गात् ; न तृतीयः, ज्ञानत्वहानेरिति महाव्रतीयाः, तदसत्-ज्ञानं गृह्णतीत्यस्यैवार्थस्यानभ्युपगमात् , अपि तु तदेव ग्रहणमित्यभ्युपगमः, तथा च ज्ञानं प्रथमक्षणे यमर्थमवलम्ब्य जातम् , द्वितीयेऽपि क्षणे तदवलम्बनमेव तन्नवेति प्रश्नार्थः, तत्र तदालम्बनमेव तदिति परमार्थः; न चैवं भ्रान्तत्वम् , विपरीतानवगाहनात् ; तथापि ज्ञेयनिवृत्तौ कथं ज्ञानानुवृत्तिः, तदनुवृत्तौ वा कथं ज्ञेयनिवृत्तिरिति चेत् ? किमस्मिन्ननुपपन्नम् ?, न हि ज्ञानमर्थश्चेत्येकं तत्त्वमेकायुष्कं वेति, सत्यपि वा क्षणिकत्वे कथमप्रत्यक्षम् , इत्थं यथोच्यते न स्वप्रकाश, वस्तुत्वादितरवस्तुवत् , न च ज्ञानान्तरमाह्यम् , ज्ञानयोगपद्यनिषेधेन समानकालस्य तस्याभावात् , ग्राहककाले ग्राह्यस्यातीतत्वेन वर्तमानाभत्वानुपपत्तेः, ग्राह्यकाले च ग्राहकस्यानागतत्वादिति चेत् ? नन्वेवं ज्ञातताऽपि न प्रत्यक्षा स्यात् क्षणिकत्वात् , कथम्? इत्थं न स्वप्रकाशा, वस्तुत्वात् , न जनकग्राह्या, अनागतत्वात् , विरम्य व्यापारायोगाच्च, न
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy