SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः १७७ योरपि ज्ञान-ज्ञेययोः स्वरूपसम्बन्धाभ्युपगमादिति वाच्यम् , विद्यमानेऽपि घटे "घटो ज्ञातः' इत्यादौ घटेन सह ज्ञानस्य स्वरूपसम्बन्धाभ्युपगमस्यैवौचित्यात् , मीमांसकेनापि यत् ज्ञाततां प्रति ज्ञानस्य कारणत्वमुपेयते, तत्र समवायेन ज्ञाततां प्रति विषयात्मकस्वरूपसम्बन्धेन ज्ञानं कारणमित्येव कार्यकारणभाव इति कारणतावच्छेदकसंसर्गतया ज्ञानस्य विषये स्वरूपसम्बन्धस्यावश्यकत्वात् , तथा च 'ज्ञातो घटः' इत्यस्य ज्ञाननिरूपितविषयतावान् घट इत्येवार्थः, अतीते घटे ज्ञानजन्यज्ञाततारूपफलाभावाद् विषयतात्मकस्वरूपसम्बन्धात्मकं गौणमेव कर्मत्वम् , तथा विद्यमानेऽपि घटे गौणमेव ज्ञानकर्मत्वमिति न तदन्यथानुपपत्त्या ज्ञाततासिद्धिः। उदयनाचार्यास्तु ज्ञान-ज्ञेययोर्विषयविषयिभावो नाम स्वरूपसम्बन्धविशेष एव, न तु ज्ञानेन ज्ञेये किञ्चित् क्रियते येन ज्ञानफलतया ज्ञातता सिद्ध्येदित्यु'पपादनाय प्रभोत्तररूपेणेत्थं व्यावर्णितवन्तः, तथाहि-"स्यादेतत् , अनुपकारक विषयस्य तदीयमेतदीयं वा न भवितुमर्हति, अविशेषात् ; न च तस्येत्यनियतं तत्र प्रमाणम् , अतिप्रसङ्गात् ; न च तदभिज्ञमन्तरेण तदुपकारस्योत्पत्तिः, तथाऽनभ्युपगमात् , अभ्युपगमे वा कार्यत्वस्यानैकान्तिकत्वात् ; अत्रोच्यते "स्वभावनियमाभावादुपकारोऽपि दुर्घटः । सुघटत्वेऽपि सत्यर्थेऽसति का गतिरन्यथा ॥" विशेषाभवात् तत्रैव फलं नान्यत्रेत्यस्यापि नियमस्यानुपपत्तेः, स्वभावनियमेन चोपपत्तौ तथैव विषयव्यवस्थोपपत्तेः, अवश्यं चैतदनुमन्तव्यम् , अतीतादिविषयत्वानुरोधात्, नहि तत्र ज्ञानेन किञ्चित् क्रियते इति शक्यमवगन्तुम् , . असत्त्वात् ; न च तद्धर्मसामान्याधारं किञ्चित् क्रियेत इति युक्तम् , तेन तस्यैव विषयत्वप्राप्तेः; तादात्म्याद् विशेषस्यापि सैव ज्ञाततेति चेत् ? तत् किं चक्षुषा घटे ज्ञायमाने रसोऽपि ज्ञायते तादात्म्यात् ? घटाकारेण ज्ञायत एवासौ रस इति चेत् ? अथ रसाकारेण किं न ज्ञायते ? तेन रूपेण ज्ञातताऽनाधारत्वादिति चेत् ? न तर्हि वर्तमानस्य सामान्यज्ञानेऽप्यतीतानागतादिज्ञानं, तेनाकारण प्राकव्यानाधारत्वादिति । ननु 'क्रियया कर्मणि किञ्चित् कर्तव्यम्' इति व्याप्तेरस्त्यनुमानम् , न "अनैकान्तादसिद्धेर्वा, न च लिङ्गमिह क्रिया । तद्वैशिष्ट्यप्रकाशत्वानाध्यक्षानुभवोऽधिके ॥" १२ शास्त्र०स०
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy