________________
शास्त्रवार्तासमुच्चयः ।
[प्रथमः न-यत्काले चैत्रस्य 'अहं ददामि' इति धीजनकज्ञानादिवासनाप्रबोधस्तत्काल एव मैत्रादीनां 'नीलोऽयं, पीतोऽयम्' इत्यादिधीजनकनीलाढ़िवासनाप्रबोधात् तत्कालस्य नीलादिवासनानुद्बोधकत्वमित्यस्य वक्तुमशक्यत्वात् , यस्काले चैत्रस्य 'अहं ददामि' इत्यादिबोधजनकदानादिवासनाप्रबोधश्चैत्रीयनीलादिवासनाप्रबोधे तत्कालो न हेतुरिति चेत् ? गतं तर्हि वासनया, तत्कालेनैव तदाकारप्रतिनियमात् , तस्मात् तत्तदर्थसंनिधानेनैव क्षयोपशमरूपा तत्तज्ज्ञानजननी वासना प्रबोध्यते, इत्यहङ्कारस्यार्थविषयकत्वमकामेनापि प्रतिपत्तव्यम् । एतेन यथा बाह्यस्यावयविरूपस्य परमाणुरूपस्य वा विकल्पकवलितस्य सत्त्वायोगाज्ज्ञानाद् भेदे विषयविषयिभावनिबन्धनतादात्म्याभावात् प्रमाणाविषयत्वेनालीकत्वं तथा ज्ञानेऽहन्त्वाद्याकारस्याप्यलीकत्वमेव, तन्नियामकस्य तत्तद्वासनावैलक्षण्यस्यापि विषयमन्तरेणाघटमानत्वात् तदुवोधकस्य ज्ञानव्यतिरिक्तस्य कस्यचिदभावात् , नील-पीते इति समूहालम्बनज्ञाने नीलाकार-पीताकारयोरेकज्ञानाभिन्नत्वेन 'तदभिन्नाभिन्नस्य तदभिन्नत्वम्' इति नियमतो नीलाकाराभिन्नज्ञानाभिन्नस्य पीताकारस्य नीलाकाराभिन्नत्वप्रसक्तावेकाकारतैवैकस्य ज्ञानस्य नोभयाकारतेति एकस्य विज्ञानस्य नानाकारभेदायोगात् , तदुक्तम् -
"किं स्यात् सा चित्रतैकस्यां, न स्यात् तस्यां मतावपि । ___ यदीदं यं] स्वयमर्थानां, रोचते तत्र के वयम् ॥ १॥"
इति शून्यवादिनो माध्यमिकस्य बौद्ध विशेषस्य मतमप्यपास्तम् , यतः, अर्थक्रियाकारित्वमेव सत्त्वं बौद्धमते, तच्च यथा ज्ञानस्य स्वरूपानुभवलक्षणार्थक्रियाकारित्वाद् घटते, तथा तदाकारस्याप्यहन्त्वाद्याकारलक्षणस्य ज्ञानाभिन्नस्य स्वानुभवलक्षणार्थक्रियाकारित्वाद् युज्यत एव, 'वह्नयाकारज्ञानाद् वह्नौ प्रवृत्तिः, वह्निना शीतापनोदादिकं क्रियते, जलाकारज्ञानाजले प्रवृत्तिः, जलेन तापापनोदादिकं क्रियते' इत्येवं बाह्येष्वपि विलक्षणार्थक्रियाकारित्वमस्त्येवेति कथं बाह्यार्थानां न सत्त्वम् ? तथा च विभिन्नार्थलक्षणाया अर्थचित्रताया व्यवस्थितौ तदधीनाया ज्ञानचित्रताया अपि सिद्धिरिति ॥ ८५ ॥
ननु यद्येवं स्वतः प्रकाश एवात्मा, तदा सदा किं न कर्तृ-क्रियाभावेन प्रकाशते? इत्यत आह-आत्मनेति-एवमवतारयन्त्युपाध्यायाः, श्रीहरिभद्रसूरयस्तुअनिष्टान्तराप्तिं परिहरन्नाह-आत्मनेति-एवमवतारितवन्तः, अनिष्टान्तरापत्तिश्वोपाध्यायोपदर्शितैवेति नावतरणयोर्भेदः ।