SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ १६२ शास्त्रवार्तासमुच्चयः । [ प्रथमः , कृत्य नोत्पद्यतेऽतो नाभावाभावत्वयोर्निर्विकल्पकप्रत्यक्षम्, तथा ज्ञानप्रत्यक्षं विषयितया किञ्चिद्विषय विशिष्टज्ञानविषयकमेव भवतीति नास्ति नियमः, येन ज्ञान- ज्ञानत्वयोर्निर्विकल्पकप्रत्यक्षं विनाऽपि ज्ञानविशिष्टप्रत्यक्षोद्भवो भवेत्, यथा च स्वासाधारण सुखत्वादिधर्मव्यतिरिक्तविशेषणमविषयीकृत्यापि 'अहं सुखी, अहं दुःखी' इत्याद्याकारकं सुखादिप्रत्यक्षं समुद्भवति तथा बाह्यविशेषलक्षणं विषयमविषयीकृत्यापि 'अहं ज्ञानवान्' इति विषयविनिर्मुक्तप्रतीतेः सार्वजनीनत्वात्, यत्किञ्चिद्विषयविशिष्टज्ञानप्रत्यक्षं प्रति मनःसंयुक्तसमवायलक्षणेन्द्रियसन्निकर्षस्य कारणत्वमतो विषयविनिर्मुक्तज्ञानप्रत्यक्षं न भवतीति न वाच्यम्, सन्निकर्षकार्यतायां विषयान्तर्भावे गौरवात् यच्चोक्तम्- अंशे तत् स्वप्रकारकं निष्प्रकारकं चेति नरसिंहाकारमिति, तत् तदा शोभेत यद्यंशभेदरूपापेक्षाभेदेन प्रकारकत्व - निष्प्रकारकत्वरूप विरुद्धधर्माध्यासमभ्युपेत्य नरसिंहाकारं ज्ञानमभ्युपेयते, तथा विषयोऽपि अपेक्षाभेदेन विरोधिधर्मद्वयसमन्वितोsभ्युपेयते, तथा च विषयोऽपि अपेक्षाभेदेन विरोधिधर्मद्वयसमन्वितोऽभ्युपेयेत, कामं तथाऽस्त्वित्येवं वचनामृतमुद्रितस्तव स्याद्वादिनो न वादे क्वचिदपि कस्मादपि भयमिति । 'नृसिंह। कारज्ञाने ज्ञानत्व-घटत्वप्रकारकत्वोभयाश्रयज्ञानवैशिष्ट्यधर्न स्यात्' इति प्रसञ्जनं तु समाहितं मिश्रेण - 'विषय निरूप्यं हि ज्ञानं, न तु विषयपरम्परानिरूप्यम्' इत्यादिना । यत्तूक्तं परप्रकाशवादिना - 'अर्थविषयकत्वेनैव ज्ञानस्य प्रवर्तकत्वं, न तु स्वविषयकत्वेनापि गौरवात्' इति, तत्र हि न नो विप्रतिपत्तिः, प्रवृत्त्यविषयस्वस्वरूपात्मकाधिकविषयकत्वेऽपि च व्यवसायस्य प्रवृत्तिजनकत्वमविरुद्धम्, स्वविषयकस्यापि व्यवसायस्य प्रवृत्तिजनकतावच्छेदकं यदिष्टतावच्छेदकधर्मप्रवृत्तिविषयवैशिष्ट्या वगाहिज्ञानत्वं तद्वत्त्वेन प्रवृत्तिहेतुत्वोपपत्तेः, न चात्र प्रमेयमिति ज्ञानमपि प्रवर्तकं स्यात् तस्यापि प्रमेयत्वेन रूपेणेष्टतावच्छेदकधर्ममवगाहमानस्येष्टतावच्छेदकप्रवृत्तिविषयवैशिष्ट्यावगाहित्वादिति वाच्यम्, इष्टतावच्छेदकस्य स्वभिन्ननिष्ठधर्माप्रकारकत्वेन विशेषणीयस्वात्, अत्र प्रमेयमिति ज्ञाने भासमानस्य रजतत्वादिरूपेष्टतावच्छेदकस्य स्वभिन्ननिष्ठप्रमेयत्वधर्मेणैव भासमानतया तत्र स्वभिन्ननिष्ठधर्माप्रकारकत्वासम्भवात्, न चेष्टतावच्छेदकप्रकारकज्ञानस्य मुख्यविशेष्यतया प्रवृत्तिहेतुत्वम्, तथा च स्वप्रकाशे व्यवसायो घटमहं जानामीत्येवंरूपो मुख्यविशेष्यतयाऽऽत्मनि वर्तते, wwwww
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy