SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ M शास्त्रवार्तासमुच्चयः। [प्रथमः समुदायिव्यतिरेकप्रयुक्त एव विनाशः, एवमुत्पत्तिप्रत्ययोऽप्यूह्यः” इति शशधरशर्मणो वचनं न रमणीयम् , राशयः खलु पञ्च-षट्सप्तादिसमुदायात्मका भवन्ति, तत्र विशेषा वर्तन्त इति तत्र षट्समुदायात्मके राशौ षट्त्वलक्षणो बहुत्वविशेष एव राशिर्भवति, न तु षण्णां समुदायरूपो राशिस्तदानीं विद्यते इति षट्सु पर्याप्ता बहुत्वसङ्ख्या षण्णामभावाद् विनश्यति, पञ्चसमुदायात्मकराशौ च पञ्चत्वसङ्ख्यालक्षणो बहुत्वविशेष उत्पद्यत इत्येवमाश्रयनाशोत्पादप्रयोज्यौ बहुत्वविशेषनाशोत्पादाविति 'कार्यविशेषात् कारणविशेषप्रतीतिरुपजायते' इति न्यायाद् राशिषु बहुत्वविशेषनाशोत्पादाभ्यां तदाश्रयनाशोत्पादप्रतीत्युपपत्तावपि, प्रकृते अत्यन्ताभावप्रागभावध्वंसात्मके समुदाये सङ्ख्याया एवाभावात् , अभावे गुणरूपायाः सङ्ख्याया अनभ्युपगमात् , यद्यपि "द्वित्वादयः परार्धान्ता अपेक्षाबुद्धिजा मताः। अपेक्षाबुद्धिनाशाच्च तेषां नाश उदाहृतः ॥ १॥ [ कारिकावली ] इति वचनान्नैयायिक-वैशेषिकमते नाश्रयोत्पाद-विनाशाभ्यां सङ्ख्यारूपबहुत्वविशेषस्य नाशोत्पादौ, तथाऽप्यपेक्षाबुद्धिव्यङ्ग्यत्वमेव द्वित्वादीनां न त्वपेक्षाबुद्धिजन्यत्वं, किन्त्वाश्रयजन्यत्वमेवेत्याश्रयोत्पादत एव तदुत्पाद आश्रयनाशादेव च तद्विनाशः; आलोकसंसर्गाभावसमुदायोऽन्धकार इति यदुच्यते तत्र समुदायेऽत्यन्ताभाव आलोकत्वावच्छिन्नप्रतियोगिताकः प्रवेष्टुमर्हति, ध्वंस-प्रागभावौ च न सामान्यधर्मावच्छिन्नप्रतियोगिताकाविति यावन्त आलोकध्वंसा आलोकप्रागभावाश्च ते सर्वेऽपि प्रत्येक निरुक्तसमुदाये यदि सन्निविष्टास्तदा विनष्टाऽऽलोकप्रागभावानां भाव्यालोकध्वंसानां नैकदा समवधानमिति तद्धटितसमुदायो न क्वचिदपि काले वर्तत इति तत्समुदायलक्षणस्यान्धकारस्य सर्वदाऽसत्त्वान्न तस्य कदाचिदपि प्रतीतिः स्यात् , येषामेवाऽऽलोकप्रागभावानां येषामेव चालोकध्वंसानामेकदा समवधानं तेषामेव कतिपयानां यदि निरुक्तसमुदाये सन्निवेशस्तदा यत्प्रागभावप्रतियोगिन आलोकस्योत्पादस्तस्यैवालोकप्रागभावस्य विनाशोऽन्ये चालोकप्रागभावास्तत्स्वरूपसन्निविष्टा विद्यन्त एवेति यत्किञ्चिदालोकभावेऽपि तदन्यालोकप्रतियोगिककतिपयाऽऽलोकप्रागभावघटितनिरुक्तसमुदायस्वरूपान्धकारस्य सत्त्वात्-यत्किञ्चिदालोकसमवधानेऽप्यन्धकारप्रतीतिः स्यात् ,
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy