SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ शास्त्रवार्तासमुच्चयः । चैतन्यं प्रति हेतुत्वेन क्लृप्तस्य प्राणादेरेव चैतन्याभावप्रयोजकीभूताभावप्रतियोगित्वस्य कल्पनौचित्यादित्याशयः । प्रतिक्षिपति - नेति - स्वान्वयव्यतिरेकनियतान्वयव्यतिरेकप्रतियोगिचैतन्यकत्वमेव प्राणादेरसिद्ध मित्यर्थः, तत्र हेतुमाह-भूयो नलिकादिना सम्पादितेऽप्यतत्सिद्धेरिति - भूयः - मरणोत्तरम्, नलिकादिना - आदिपदाद् बस्त्यादिपरिग्रहः, सम्पादितेऽपि अन्तः सञ्चारितेऽपि, वायौ इति शेषः, अतत्सिद्धेः-चैतन्यासिद्धेश्चैतन्यानुत्पत्तेरिति यावत्, तथा च मृतदेहे नलिकादिनाऽन्तः प्रविष्टवायुलक्षणप्राणसत्त्वेऽपि चैतन्यस्याभाव इति तत्सत्वे तदभावलक्षणान्वयव्यभिचारात् प्राणादिना सह चैतन्यस्यान्वय-व्यतिरेकनियतान्वयव्यतिरेकत्वमसिद्धमिति भावः । पर आह- सोऽन्य एवेति - सः - नलिकादिनाऽन्तः सञ्चारितो वायुः, अन्य एव - प्राणाद् भिन्न एव न तु प्राणः, तथा च प्राणसत्त्वे चैतन्यानुत्पाद इत्येव नास्ति, कुतोऽन्वयव्यभिचारः ? अत्रोत्तरम् - न तत् यदुक्तं स वायुर्न प्राण इति तन्न समीचीनम् ॥ ६९ ॥ $ स वायुर्न प्राण इत्यस्यायुक्तत्वं तद्वायोः प्राणलक्षणसमन्वयेन व्यवस्थापयतिवायुसामान्यसंसिद्धेस्तत्स्वभावः स नेति चेत् ? । अत्रापि न प्रमाणं वचैतन्योत्पत्तिरेव चेत् ? ॥ ७० ॥ वायु सामान्यसंसिद्धेरिति " प्राणादिस्तु महावायुपर्यन्तो विषयो मतः " [ ] इति, " प्राणोऽपानः समानश्चोदानव्यानौ च वायवः " [ ] इत्यादिवचनात् प्राणे नलिकादिसञ्चारितवायौ च वायुसामान्यस्य - वायुत्वस्य संसिद्धेःसर्वलोकपरीक्षक सुप्रतीतत्वात्, अन्यवायुतः प्राणे कोष्ठान्तः सञ्चारित्वं विशेषः, सोऽपि नलिकादिना कोष्ठान्तः संप्रविष्टे वायौ समस्तीति " कोष्ठान्तः संचारी वायुः प्राणः” [ ] इति प्राणलक्षणं तत्र समस्तीति स्यादेव स एव प्राण इति । पर आह-तत्स्वभावः स नेति - चैतन्यजननस्वभावो नलिकादिना सञ्चारितो वायुर्न भवत्यतो न स प्राणः, तथा च चैतन्यजननस्वभावो वायुः प्राण इत्येव प्राणलक्षणम्, तदभावान्न लिकादिसञ्चारितवायोर्न प्राणत्वमित्यर्थः । अत्रोत्तरवादी आह-इति चेदिति - इति यदि त्वं मन्यस इत्यर्थः । अत्रापि वस्तुगत्या कोष्ठान्तःसन्निविष्टे प्राणवायौ चैतन्यजननस्वभावत्वेऽपि । वो युष्माकं प्रत्यक्षमात्रप्रमाणवादिनां चार्वाकाणाम् । न प्रमाणं प्राणवायुगततया प्रत्यक्षाविषये चैतन्यजननस्वभावत्वे प्रत्यक्षप्रमाणं तावन्नास्त्येव, अनुमानादिकं च नाभ्युपगम्यत 1 .१०८ [ प्रथमः
SR No.022388
Book TitleShastra Vartta Samucchay Part 01
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasuri Gyanmandir
Publication Year1954
Total Pages300
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy