________________
८३
स्तबकः]
स्याद्वादवाटिकाटीकासङ्कलितः वाच्यः, तं प्रति कारणान्तरकल्पनापेक्षयाऽवश्याश्रयणीयेन स्वभावापरनाम्ना परमाणुगतातिशयेनैव द्रव्योत्पत्तिसम्भवाद् विजातीयसंयोगस्य द्रव्यहेतुत्वे प्रमाणाभावात् , द्रव्योत्पत्तिप्रयोजकः स्वभावापरनामा परमाणुगतातिशयश्च शक्तिस्तदन्यो वेति वादान्तरम् , अतिशयस्यैव द्रव्यान्तरोत्पादप्रयोजकत्वं न तु संयोगस्येति व्यवस्थितौ दशतन्तुकपटादेश्वरमतन्तुसंयोगवियोगक्रमेण यथा नवतन्तुकपटोपलब्धिस्तथा प्रथमतन्तुसंयोगवियोगक्रमेणापि नवतन्तुकपटोपलब्धि रबाधितैव, नवपर्यन्तैस्तन्तुभिरतिशयशालिभिर्नवतन्तुकपटारम्भस्येव द्वितीयादिभिरपि नवतन्तुभिरतिशयितैर्नवतन्तुकपटारम्भस्य सम्भवात् ; न चैवं प्रतिलोमक्रमेणानन्तपटकल्पनापत्तिः, द्वितीयमादाय नवतन्तुकपटस्येव तृतीयमादा. याष्टतन्तुकपटस्यापि स्वीकर्तव्यत्वादिति वाच्यम् , इष्टत्वात् , एकानेकस्वभावाविरोधात् ; न चैवं दशतन्तुकपटे नवतन्तुकाष्टतन्तुकपटादिसत्त्वे दशतन्तुकपटोपलब्धिसमये नवतन्तुकपटाद्युपलब्धिः स्यात् , एवं नवतन्तुकपटोपलब्धिकालेऽष्ट. तन्तुकपटाद्युपलम्भः स्यादिति वाच्यम्, दशतन्तुकपटस्थले नवतन्तुकपटस्य सत्त्वेऽप्येकतन्तुसंयोगविगमस्य तत्र तदभिव्यञ्जकस्याभावानवतन्तुकपटोपलब्ध्यभावोपपत्तेः, तत्रैव द्वितन्तुसंयोगविगमादेरष्टतन्तुकपटाद्यभिव्यञ्जकस्याभावादष्टतन्तुकपटादेरप्युपलब्ध्यभावात् , एवं नवतन्तुकपटेऽप्यष्टतन्तुकपटादि सत्त्वेऽप्येकतन्तुसंयोगविगमादिलक्षणाभिव्यञ्जकाभावादष्टतन्तुकपटाद्यनुपलब्धिसम्भवात् , प्रतिनियताभिव्यञ्जकाभावादेव सहस्रतन्तुकादिरूपे महति पटे एकोनसहस्रतन्तुकादिरूपाणां बहूनां पटानामनुपलब्धावेकः पट इति प्रतीतिर्नानुपपन्ना, यथावाऽङ्गुलीभूतलसंयोगे पाणिभूतलसंयोग-शरीरभूतलसंयोगादेः सत्त्वेऽपि तदवच्छेदेन तस्य बहुविधस्यानुपलब्धिरेव तथैवैकपटस्यैवोपलब्धिर्न तु सतोऽप्यनेकपटस्य, न चानुपलब्धिमात्रेण पटान्तराणामसत्त्वम् , तथा सत्यङ्गुलीभूतलसंयोगावच्छेदेन पाण्यादिसंयोगानामनुपलब्ध्या तेषामप्यभावा. पत्तेरिति ।
ननूक्तदिशा द्रव्यस्य द्रव्यान्तराप्रतिबन्धकत्वेन दशतन्तुकपटादौ नवतन्तुकपटादिसद्भावेऽपि पटात्मकपरिणामकाले तन्त्वादिपरिणामस्य सद्भावो न भवेत् , पूर्वावस्थानाशेनैवोत्तरावस्थाया अभ्युपगमेन तन्त्वादिपरिणामलक्षणपूर्वावस्था. नाशेनैव पटादिपरिणामलक्षणोत्तरावस्थोत्पत्तेरिति पटकाले विनष्टस्य तन्तोः प्रतीतिर्न स्यात् , प्रत्यक्षप्रतीतौ वर्तमानतयैव विषयाणां कारणत्वस्यातीतविषयाप्रत्यक्षानु