________________
स्तबकः] स्याद्वादवाटिकाटीकासङ्कलितः असत्त्वमेव तस्य कुतः?; कारणाभावादसत्त्वं तस्येति चेत् ? तर्हि कारणाभावादसत्त्वमसत्त्वाच्च कारणाभाव इत्येवमन्योऽन्याश्रय आपद्येत । ननु न कारणाभावादसत्त्वं येनान्योऽन्याश्रयः, किन्तु अस्तीतिधीविषयत्वाभावादसत्त्वम्, असत्त्वाञ्च कारणाभाव इति चेत् ? न-अस्तीतिधीविषये प्रध्वंसे असत्त्वस्य सत्त्वाभावरूपस्य सत्त्वेऽपि अस्तीतिधीविषयत्वाभावस्य तत्रासत्तया तस्यासत्त्वनियामकत्वासम्भवात् । विधि-निषेधव्यवहाराविषयत्वादसत्त्वम् , असच्च न विधिनिषेधव्यवहारविषय इति चेत् ? न-पञ्चमं भूतमस्तीत्येवं विधिव्यवहाराभाजनेऽपि पञ्चमभूते पञ्चमं भूतं नास्तीत्येवं निषेधव्यवहारस्य तत्र सद्भावेन विधिनिषेधव्यवहाराविषयत्वस्य तत्राभावात् । ननु भूतस्य पञ्चमत्वस्य च प्रसिद्धतया भूते पञ्चमत्वं नास्तीत्येव व्यवहियत इति चेत् ? न-असतोऽपि विकल्पविषयत्वस्याभ्युपगमेन विकल्पविषयस्याखण्डस्यैव पञ्चमभूतस्य पञ्चमं भूतं नास्तीत्येवं प्रतीयमानस्य निषेधस्य प्रतियोगितयोल्लिख्यमानत्वात् , अन्यथा इह पञ्चमं भूतं नास्तीत्येवं प्रतीतेरुल्लेखो नोपपद्येत, तथा चान्यथानुपपद्यमाने प्रतीतेस्तथोल्लेखे जाग्रति निरुक्तप्रतीतेभूतविशेष्यकत्वे सति पञ्चमत्वप्रकारत्वस्याभ्युपगन्तुमशक्यत्वाच्च । नन्वेवम्___ "असंदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् ।
शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्यम् ॥” [ साङ्ख्यकारिका] इतिवचनप्रतिपाद्यस्य साङ्ख्यानां सत्कार्यवादस्य साम्राज्यं स्यात् , तथा चोत्पत्तेः प्रागपि कार्यस्य सत्त्वे तदानीं कार्यसत्त्वमुपलभ्येत; न च तदानीं सदपि कार्य तिरोभूतं न त्वाविर्भूतमित्याविर्भावाभावान्नोपलब्धिप्रसङ्ग इति वाच्यम् , आविर्भावाभावस्यैव निरुच्य दर्शयितुमशक्यत्वात् , आविर्भावो नाम प्रकटीभावः, स चोपलम्भ एवेत्युपलम्भाभाव आविर्भावाभावः स्यात् , तथा च 'आविर्भावाभावादुपलम्भाभावः' इत्येतत् 'उपलम्भाभावादुपलम्भाभावः' इति पर्यवसित. मात्माश्रयग्रस्तमिति; आविर्भावाभावस्य व्यञ्जकाद्यभावरूपत्वमपि न युक्तम् , व्यञ्जकादीनां प्राक् सत्त्वे तदानीं व्यङ्ग्यस्य कार्यस्योपलम्भापत्तेः, व्यञ्जकाद्यभावस्य तदानीमप्यसत्त्वेन तत्प्रयुक्तस्योपलम्भाभावस्यासत्त्वापत्तेश्च , व्यञ्जकादीनां प्रागसत्त्वे च 'असतो नास्त्युत्पत्तिः' इति सिद्धान्तादुत्तरकालेऽपि व्यञ्जकादीनामुत्पत्तिर्न स्यात् , तथा च व्यञ्जकाद्यभावादुत्तरकालेऽपि कार्योपलम्भो न भवेदिति सर्वदा कार्यानुपलम्भप्रसङ्गः । अपि च, असत उत्पत्त्यनुपगमे सत उत्पत्ति