SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ द्वितीयो विधिविध्यरः। शैलीप्रामाण्ये चास्य शैल्या यूपक्रियाऽयाथार्थ्यात् तत्सिद्धिरयुक्तैव। ननु सेवादिवत् क्रियामात्रत्वादितिकर्तव्यताभ्यः प्रतिपत्तिस्तन, भजनार्थसेवायाः ज्ञातत्वे तासां सेवार्थत्वात् अज्ञातत्वे तदर्थाप्रतिपादनात्, न त्वेवमग्निहोत्रावयवक्रियाः ज्ञाताः अवश्यश्चैत देवमितरथा प्रतिक्रियं पृथक्त्वापत्तेः। नात्रापि हवनादीनां दानाद्यर्थत्वाद्वैषम्यम्, उत्तरक्रियामात्रत्वाच्चैतदपि न, लोकविदितदानाद्यर्थानुबद्धेतिकर्त्तव्यतामात्रार्थतापत्तेः, न चैतदिष्टं दृष्टं वा, अग्निसम्प्रदानत्वविरोधात्। ___ यदि चानय इति सम्प्रदानविशेषो लौकिक एव, ननु लौकिक एव गृह्यमाण इत्याद्युक्तदर्शनवदनर्थकः । नैवं सा तदाभत्वात्, अदानात्मकत्वात्, यथा बालरमणकादिक्रियायामन्योऽन्यदानभोजनादिक्रियाः । प्रधानादिवादसाधुता वा, प्रसिद्धिविपरीततत्त्वस्थितार्थत्वात्, वेदवादासाधुता वा तेषां स्यात्। अथाऽग्निहोत्रमित्यस्यापूर्वविशेषाभिधानार्थतैव कल्प्येत तथा सत्यपूर्वाभिधाने कोऽर्थः कृतः स्यात्? ___ यः स्वर्गकामः स हवनेनेतिकर्तव्यताविशेषेण स्वर्ग भावयेदिति कृतः स्यात्, न, विद्यापर्यायतत्त्वज्ञानोत्पादनार्थत्वादविद्यानिराकरणार्थत्वाच शब्दप्रयोगः, तेन किमूनीकृतं? यावदेवोक्तं भवति यः स्वर्गं कामयते स जुहुयादिति तावदुक्तं भवत्यपूर्व
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy