________________
प्रथमः विधिभङ्गारः
२९
अथवा त्वदीयैरेवाक्षरैरेषोऽर्थो भाव्यते अर्थेऽर्थसंज्ञी न, अर्थे - नीलादौ परमार्थसत्यर्थसंझी न भवत्यतीन्द्रियत्वात्तस्य, तुशब्दो विशेषणे, अर्थे धर्मसंज्ञी नेति वर्त्तते यस्तावदर्थ एवार्थसंज्ञी न भवतीति स कुतोऽर्थे धर्मसंज्ञी भवतीति विशेषस्तुशब्दात् अर्थापत्त्या पूर्ववदनर्थेऽर्थसंज्ञी तस्मिन्नेव च धर्मसंज्ञीति, ततः किं जातं? शून्यशून्यप्रत्युपादनवदसद्विषयत्वं दोषजाताया अपि तस्याः कल्पनायाः, ततश्च निर्मूलकल्पनामात्रसत्यत्वाल्लौकिकदृष्टसलिलादिबीजमृगतृष्णिकादिकल्पनाभ्योऽपि पापीयस्यौ प्रत्यक्षानुमानकल्पने युष्मदीये।
यच्चाप्यभिहितमभिधर्मकोशे यत्तत्रानेकप्रकारभिन्न इत्यादि यावदनेकवर्णसंस्थानं पश्यत इति बुद्धवचनं प्रत्यक्षलक्षणानुषङ्गागतं चक्षुर्विज्ञानसमङ्गिनीलविज्ञानोदाहरणसंभावनवाक्यवनोपपद्यत एवेत्युपपादयिष्यन् न पश्यतीदं पुनर्बुद्धवचनं न प्रमाणमिति ।
तत्र कल्पनापोढस्वलक्षणविषयप्रत्यक्षलक्षणचोद्योपक्रमप्रसङ्गेन यत्तीदं सञ्चितालम्बनाः पञ्च विज्ञानकाया इति तत्कथम्? यदि तदेकतो न विकल्पयति, यच्चोक्तमनेकप्रकारभिन्नैकानेकद्रव्योत्पाद्यज्ञानेत्यत्र कल्पनात्मकत्वप्रसङ्गोऽस्वलक्षणविषयत्वप्रसङ्गश्चेति चोदिते तत्परिहारार्थमायतनस्वलक्षणं प्रत्येते स्वलक्षणविषया न द्रव्यस्वलक्षणमिति कथं तत्कल्पनापेतमित्यन्यत्र विचारः करिष्यते । इदमेव तावद्विचारयामो बुद्धवचनं कदाचिदेकेन द्रव्येण ज्ञानमुत्पाद्यते कदाचिदनेकेनेति । अत्रापि कथमनेकप्रकारभिन्नसामान्यवृत्तिरूपा-" यतनतायां तद्रूपायतनं पश्यतस्तदालम्बनत्वात्तस्य स्वलक्षणविषयं