SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ द्वादशोऽरः नियमनियमनयः ३७७ ग्राहकाकारपरिप्लवाद्ाह्याकारभ्रान्तेः शून्यगृहवत् प्रवेष्ट्रस्थातृनिर्गन्तृ -कल्पोत्पादादिरहितं कल्पयितुं न्याय्यम्। स च स्वभावश्चिन्त्यमानो न स्वतः नापि परतो न द्वाभ्याम्, नाप्यहेतुतः, अथ कथं स्वपरोभयाभावः? ब्रूमः, असिद्धययुक्त्यनुत्पादसामग्रीदर्शनादर्शनेभ्यः, असिद्धेस्तावत् दीर्घहस्वयोर्मध्यमानामिकाङ्गुल्योः दीर्घाया दीर्घस्वभावो न तावदीर्घ स्वात्मन्यस्ति परायत्तत्वात्तस्यास्तस्य तद्धि अनामिकाहस्वत्वायत्तं यत् स्वात्मन्यसिद्धं तत् कथं परतः सिद्धयेत्? यदि हि स्वविषयमेवैतत् स्यात्, अनामिकाहस्वत्वं न स्यात्, अपरापेक्षत्वात् साऽपि दीर्धेव स्यात्, मध्यमावत्, न तु भवति तस्या हस्वत्वेष्टेः, अथाह्रस्वैवेष्यते ततश्च मध्यमादीर्घत्वाभावः, तामेवापेक्ष्य दीर्घति व्यपदेशात्, तस्माच्च दीर्घत्वप्रतिपक्षस्यानामिका -हस्वत्वस्याभावः, तयोः परस्परायत्तत्वात्, कदा मध्यमा दीर्घा सेत्स्यति? यदाऽनामिकाह्रस्वा भवेत् अनामिका ह्रस्वा च मध्यमादीर्घत्वसिद्धौ सेत्स्यति इति इतरेतराश्रयत्वादसिद्धिः।। न ह्रस्वेऽपि दीर्घत्वं तत्प्रतिद्वन्द्रित्वात्तयोस्तमः प्रकाशवत् जीवितमरणवचैकत्र कुतो भावः? तस्य वाऽदीर्घत्वेऽभावात्मकत्वात् कुतो दीर्घत्वमागतमन्यत्? ह्रस्वत्वाभावाच नास्ति दीर्घत्वम्, दीर्घत्वस्य ह्रस्वे वृत्ते तदवष्टब्धे ह्रस्वत्वस्यानवकाशात्, तथापि पुनः हस्वप्रतियोगिनो दीर्घत्वस्याभावान सिद्धयति दीर्घत्वम्, स्वात्मनि' परत्र वा वृत्त्यसम्भवात्।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy