SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ दशमोsर: नियमविधिनयः किं तर्हि वस्त्विति चेदुच्यते - रूपादय एव समुदायिनः, न समुदायो नाम कश्चित् त एव हि भवन्ति, यत्तत्तैर्भूयते स भावो भवनं भूतिः, ते हि तस्या भवनक्रियायाः कर्त्तारः, योऽन्यैः परिकल्प्यते समुदायः कारणं द्रव्यमित्यादिः स न भावः कश्चिदस्ति, अरूपादित्वात्, खपुष्पवत्, को हि सः पृथिव्यादिविनाभूतः, एवं कः पृथिव्याकाशादिरण्वादिविनाभूतः केऽणवो रूपादिभ्यो बिना, अभिवचनमात्रमेवैते, आत्मा च न नामान्यः कश्चिदस्ति, अरूपादित्वात् खपुष्पवत् । , ३५५ यथा चक्रेषाण्यक्षादिहस्त्याद्यङ्गसमूहे रथसेनासंज्ञा, समुदायो विभज्यमानोऽङ्गेषु तान्यपि स्वांशेषु, प्रत्येकमेवं परमाणुपर्यन्तं विभज्य सुष्ठु निभाल्यमानोऽपि न रथादिरङ्गव्यतिरिक्तो दृश्यते, किन्तु तत्समुदाय एवाssभासते तथा, यदि सोऽङ्गेषु रूपाद्यात्म व्यतिरिक्तेनात्मना स्यात्तत उपलब्धिधर्मा तत्प्रतिबन्धिनामभावे रूपादिवदुपलभ्येत, वस्तुत्वान्न तूपलभ्यते, तस्मादसन्, रूपादि व्यतिरिक्तोऽस्ति चेत्समुदायोऽनात्मको नासौ ततः खपुष्पवद्भवेत्, अरूपत्वात् अरूपाद्यात्मकत्वाद्रूपादिभ्य इव वा खपुष्पादेरपि भवेत् । अथानर्थान्तरतायां रूपादिष्वदृष्टं भारवहनादिकार्यं रथादौ कथम् ? अत्र प्रयोगः स्वतो व्यतिरिक्तसहकारिसम्बन्धिनो रूपादयः, स्वासम्भविकार्यदर्शनाच्चक्षुरादिवदिति, क तर्हि तद्दृष्टं ? तेष्वेव, नन्वविवादसिद्धं शिबिकावाहकेभ्यश्चतुर्भ्यो व्यतिरिक्तात् सहायातेऽपि शिबिकावहनं दृष्टं कार्यम्, अतोऽनैकान्तिकं तत्, तथा प्रत्येकवस्तुवृत्तिमनतिक्रामन्त एव स्वां वृत्तिमवतिष्ठन्ते
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy